SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, नै० उद्देशकः २ १२३ एश्वर्यमित्यर्थ, ईशंएश्वर्ये' इति वचनात्, तत ईशम्-एश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति-प्रधयतिईशाख्यः, महांश्चासावीशाख्यश्चमहेशाख्यः, कचित् महासोक्खे' इति पाठः, तत्रमहत् सौख्यंयस्य प्रभूतसद्धेदोदयवशात्स महासौख्यः, अन्ये पठन्ति-'महासक्खे' इति तत्रायं शब्दसंस्कारो-महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता यस्यासौ महाश्वाक्षः, तथा महानुभागे' इति अनुभागो-विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति भागोऽचिंता सत्ती' इतिवचनात्, महान् अनुभागोयस्यस महानुभागः,अमूनि महर्द्धिक इत्यादीनि विशेषणानितत्सामातिशतयप्रतिपादकानि यावदिति चप्पुटिकात्रयकरणकालावधिप्रदर्शनपरम्। ___'इणामेव इणामेवेतिकट्ठ एवमेव मुधिकया एवमेव मोरकुल्ला मुहा यमुहियत्तिनायब्वा' इति वचनाद्अवज्ञयेतिभावः, उक्तञ्चमूलटीकायाम् “इणामेवइणामेवेतिकट्ठएवमेव मुधिकयाऽवज्ञयेति" 'इतिकृत्वे ति हस्तदर्शितचप्पुटिकात्रयकरणसूचकं केवलकल्पं-परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातोनाम चप्पुटिका, तत्रतिसृभिश्चप्पुटिकाभिरितिद्रष्टव्यं, चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिम्नश्चप्पुटिकाः पूर्यन्ते तावत्कालमध्य इत्यर्थ, त्रिसप्तकृत्वः-एकविंशतिवारान् अनुपरिवर्त्य-सामस्त्येन परिभ्रम्य 'हव्वं' शीघ्रमागच्छेत् । स इत्थम्भूतगमनशक्तियोग्यो देवः तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयाप्रशस्तया शीघ्रसंचरणात्वरितया त्वरा संजाताऽस्यामिति त्वरिता तयात्वरितया शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति, चपलेव चपला तया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेवचण्डातया, निरन्तरं शीग्रत्वगुणयोगात् शीघ्रा तयाशीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना तया, अन्ये तु जितया विपक्षजेतृत्वेनेति व्याचक्षते, 'छेकया' निपुणया, वातोद्भूतस्य दिगन्तव्यापिनो रजस इवया गति सा उद्भूता तया, अन्ये त्वाहुः-उद्धतया दप्पतिशयेनेति । 'दिव्यया' दिवि-देवलोके भवा दिव्या तया देवगत्या व्यतिव्रजन् जघन्यतः एकाहं वा' एकमहर्यावत्, एवंद्वयहं त्र्यहमुत्कर्षतः षण्मासान्याव व्यतिव्रजेत्, तत्रास्त्येतद्यदुत् एककान् कांश्चन नरकान् ‘व्यतिव्रजेत्' उल्लङ्घय परतो गच्छेत्, तथाऽस्त्येतद् यदुत् इत्थंभूतयापि गत्या षण्मासानपि यावनिरन्तरं गच्छन् एककान् कांश्चन् नरकान् 'न सव्यतिव्रजेत्' नोल्लक्ष्य परतो गच्छेत्, अतिप्रभूताऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात्, एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रज्ञप्ताः, एवमेकैकस्यांपृथिव्यांतावद्वक्तव्यंयावदधःसप्तम्यां, नवरमधःसप्तम्यामेवं वक्तव्यम्-“अत्थेगइयं नरगंवीइवएज्जा अत्थेगइए नरगेनो वीइवएज्जा" अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यत्वात् शेषाणां च चतुर्णामतिप्रभूतासङ्ख्येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् । सम्प्रति किंमया नरका इति निरूपणार्थमाह मू. (९९) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरगा किंमया पन्नता?, गोयमा ! सव्ववइरामया पन्नत्ता, तत्थ णं नरएसुबहवे जीवा य पोग्गला य अवक्कमति विउक्कमति चयंति उववजंति, सासता गं ते नरगा दवट्ठयाए वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपञ्जवेहिं असासया, एवंजाव अहेसत्तमाए। वृ, 'इमीसे णं भंते !' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः 'किंमयाः' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy