SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ जीवाजीवाभिगमउपासूत्रम् ३/नै०-२/९७ कोऽपरसय भेदकोऽन्यस्यव्यथाजनकोऽपरस्यदाहक इत्यादि ततः साम्यप्रतिपत्यर्थमसिपत्रादीनां नानाविधानामुपमानानामुपादानं, 'भवे एयारूवे सिया ?' इत्यादि प्राग्वत् । सम्प्रति नरकावासानां महत्वमभिधित्सुराह म. (९८) इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पन्नता?, गोयमा! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्भंतरए सव्वखुड्डाए बट्टे तेल्लापूबसंठाणसंठिते बट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवणं। देवे णं महिष्टीए जाव महाणुभागे जाव इणामेव इणामेवत्तिकड्ड इमं केवलकप्पंजबूद्दीवं २ तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उक्कट्ठाए तुरिताए चवलाए चंडाए सिग्याए उद्ध्याए जयणाए [छेगाए दिव्याए दिव्बगतीए वीतिवयमाणे २ जहन्नेणं एगाहं वा दुयाहं वा तिआहे वा उक्कोसेणं छम्मासेणं वीतिवएजा, अत्थेगतिए वीइवएजाअत्थेगतिए नो वीतिवएजा, एमहालताणंगोयमा! इमीसेणं रयणप्पभाए पुढवीए नरगा पन्नत्ता, एवंजाव अघेसत्तमाए, नवरं अधेसत्तमाए अत्यंगतियं नरगंवीइवइजा, अत्यंगइए नरगे नो वीतिवएजा। वृ. इमीसेण मित्यादि, अस्यां भदन्त! रत्नप्रभायांपृथिव्यां नरकाः किंमहान्तः किंप्रमाणा महान्तः प्रज्ञप्ताः?, पूर्वं ह्यसङ्खयेयविस्तृता इति कथितं, तच्चासङ्खयेयत्वं नावगम्यत इति भूयः प्रश्नः, अतएवात्र निर्वचनं भगवानुपमयाऽभिधत्ते, गौतम! अयमिति यत्र संस्थिता वयंणमिति वाक्यालझारे अष्टयोजनोच्छ्रितया रलमय्या जम्ब्बा उपलक्षितो द्वीपो जम्बूद्वीपः सर्वद्वीपसमुद्राणां-घातकीखण्डलवणादीनां सर्वाभ्यन्तरः-आदिभूतः सर्वक्षुल्लकः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-हस्वः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे धातकीखण्डादयो द्वीपा अस्माजम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणायामविष्कम्भपरिधयः ततोऽयं शेषसर्वद्वीपसमुद्रापेक्षया सर्वलघुरिति । तथावृत्तोयतः तैलापूपसंस्थानसंस्थितः तैलेनपक्चोऽपूपस्तैलापूपः,तैलेन हिपकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतेन पक इति तैलविशेषणं, तस्येव संस्थानं तैलापूपसंस्थानं तेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तो यतः पुष्करकर्णिकासंस्थानसंस्थितः, तथा वृत्तो यतो रथचक्रवालसंस्थानसंस्थितः, तथा वृत्तो यतः परिपूर्णचन्द्रसंस्थानसंस्थितः, अनेकधोपमानोपमेयभावो नानादेशजविनेयप्रतिपत्यर्थ, एक योजनशतसहनमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशे त्रयः क्रोशा अष्टाविंशं धनुःशतं त्रयोदशअङ्गुलानि अर्धाङ्गुलंचकिञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्तः, परिक्षेपपरिमाणगणितभावना क्षेत्रसमासटीकातो जम्बूद्वीपप्रज्ञप्तिटीकातो वा वेदितव्या। देवे ण'मित्यादि, देवश्च णमिति वाक्यालङ्कारे, 'महर्द्धिकः' महती ऋद्धिर्विमानपरिवारादिका यस्य स महर्द्धिकः, महती द्युति शरीराभरणविषया यस्य स महाद्युतिकः, महद् बलं-शारीरःप्राणो यस्य स महाबलः, महद् यशः-ख्यातिर्यस्य स महायशाः, तथा ‘महेसक्खे' इति महेश इति महान् ईश्वर इत्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भावे धप्रत्यय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy