________________
प्रतिपत्तिः - ३, नै०-उद्देशकः१
१११ 'इमीसेण मित्यादि, अस्यां भदन्त ! रत्नप्रभायांपृथिव्यांसर्वेपुद्गला लोकोदरविवरवर्तिनः कालक्रमेण प्रविष्टपूर्वा तद्भावेन परिणतपूर्वा, तथा सर्वेपुद्गलाः प्रविष्टाः' एककालं तद्भावेन परिणताः?, भगवानाह-गौतम! अस्यारत्नप्रभायांपृथिव्यांसर्वेपुद्गलाःलोकवर्तिनः 'प्रविष्टपूर्वा' तद्भावेनपरिणतपूर्वा, संसारस्यानादित्वात्, नपुनरकेककालं सर्वपुद्गलाः 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतौ रलप्रभाव्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः,नचैतदस्ति, तथाजगत्स्वाभाव्यात्। एवं सर्वासुपृथिवीषुक्रमेण वक्तव्यंयावदधःसप्तम्यां पृथिव्यामिति । 'इमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण 'विजढपुव्वा' इति परित्यक्तपूर्वा तथैव सर्वै पुद्गलैरेककालं परित्यक्ता ?, भगवानाह-गौतम ! इयं रत्नप्रभा पृथिवी सर्वपुद्गलै कालक्रमेण परित्यक्तपूर्वा, संसारस्थानादित्वात्, न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, नचैतदस्ति, तथाजगत्स्वाभाव्यतः शाश्वतत्वात्, एतच्चानन्तरमेव व्यति। एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावदधःसप्तमी पृथिवी ।।
मू. (९२) इमा णं भंते ! रयणप्पभा पुढवी किं सासया असासया ?, गोयमा ! सिय सासता सिय असासया।। से केणट्टेणं भंते! एवं वुच्चइ-सिय सासया सिय असासया? गोयमा दव्वठ्ठयाए सासता, वण्णपज्जवेहिं गंधपज्जवेहि रसपञ्जवेहिं फासपज्जवेहिं असासता, से तेणटेणं गोयमा! एवं बुच्चति-तं चेव जाव सिय असासता, एवं जाव अधेसत्तमा।
इमा णं भंते ! रयणप्पभापु० कालतो केवच्चिर होइ?, गोयमा ! न कयाइ न आसि न कयाइ नस्थि न कयाइ न भविस्सति ।। भुविं च भवइ य भविस्सति य धुवा नियया सासया अक्खया अब्बया अवहिता निघा एवं जाव अधेसत्तमा ॥
वृ. 'इमा णं मंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी किं शाश्वती अशाश्वती ?गौतम ! स्यात्-कथञ्चित्कस्यापि नयस्याभिप्रायेणेत्यर्थ शाश्वती, स्यात्-कथञ्चिदशाश्वती ।। एतदेव सविशेष जिज्ञासुः पृच्छति-से केणवेण'मित्यादि, सेशब्दोऽथशब्दार्थ स च प्रश्ने, केन 'अर्थेन' कारणेन भदन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति?, भगवानाहगौतम ! 'दव्वट्ठयाए' इत्यादि, द्रव्यार्थतया शाश्वतीति, तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्वति-गच्छति तान्तान् पर्यायान् विशेषानिति वा द्रव्यमितिव्युत्पत्तेर्द्रव्यमेवार्थः-तात्विकः पदार्थ यस्य न तुपर्यायाः स द्रव्यार्थः-द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो द्रव्यार्थता तया द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात् ।
वर्णपर्यायः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः कठिनत्वादिभि ‘अशाश्वती’ अनित्या, तेषां वर्णादीनांप्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात्, अतादवस्थ्यस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोमयोरप्यसत्वापत्तेः, तथाहि-शक्यते वक्तुंपरपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तः, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगतबालत्वादिपर्यायवत्, उक्तश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org