SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-१/९० तत आह-'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभां पृथिवीं 'सर्वतः' सर्वासु दिक्षु विदिक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्तते तेन कारणेन वलयाकारसंस्थानसंस्थितः प्रज्ञप्तः । एवं घनवातवलयसूत्रं तनुवात- वलयसूत्रं च परिभावनीयं, नवरं घनवातवलयो घनोदधिवलयं संपरिक्षिप्येति वक्तव्यः,तनुवातवलयोधनवातवलयंसंपरिक्षिप्येति । एवंशेषास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनीयानि। ___ 'इमाणंभंते!' इत्यादि, इयं भदन्त ! रलप्रभापृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां प्रज्ञप्ता ?, भगवानाह-असङ्खयेयानि योजनसहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ?-असङ्खयेयानि योजनसहस्रणि आयामेन, असङ्खयेयानि योजनसहस्राणि विष्कम्भेनच, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तनेतुल्यत्वं, तथाऽसङ्ख्येयानि योजनसहमणि परिक्षेपेण' परिधिना प्रज्ञप्ता, एवमेकैका पृथिवी तावद्वक्तव्या यावदधःसप्तमी पृथिवी। 'इमाणंभंते' इत्यादि, इयं भदन्त! रत्नप्रभा पृथिवीअन्तेमध्येचसर्वत्र समा 'बाहल्येन' पिण्डमावेन प्रज्ञप्ता?, भगवानाह-गौतमेत्यादिसुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी। मू. (९१) इमीसे णं भंते ! रयणप्प० पु० सव्वजीवा उववन्नपुब्बा? सब्वजीवा उववन्ना?, गोयमा! इमीसे णं रय० पु० सव्वजीवा उववन्नपुब्वा नो चेवणं सब्वजीवा उववन्ना, एवंजाव अहेसत्तमाए पुढवीए। __इमाणं भंते! रयण पु० सव्वजीवेहिं विजदपुव्या? सवुवजीवेहिं विजढा?, गोयमा! इमाणं रयण पु० सबजीवेहिं विजढपुवा नो चेवणं सव्वजीवविजढा, एवंजाव अधेसत्तमा इमीसे गंभंते! रयण० पु० सव्वपोग्गला पविठ्ठपुवा? सव्वपोग्गला पविट्ठा ? गो०!! इमीसे णं रयण पुढवीए सब्बपोग्गला पविठ्ठपुव्वा नो वेवणं सव्वपोग्गला पविट्टा, एवं जाव अधेसत्तमाए पुढवीए।इमाणं भंते! रयणप्पभा पुढवी सव्वपोग्गलेहिं विजढपुवा? सव्वपोग्गल विजढा?, गोयमा! इमाणं रयणप्पभा पु० सब्बपोग्गलेहिं विजढपुव्वानो वेवणंसधपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा । वृ. 'इमीसे गंभंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति उत्पन्नपूर्वाकालक्रमेण, तथा सर्वजीवाः 'उपपन्नाः' उत्पन्नायुगपद्?, भगवानाहगौतम ! अस्यारत्नप्रभायां पृथिव्यां सर्वजीवाःसांव्यवहारिकजीवराश्यन्तर्गताः प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वा' उत्पन्नपूर्वाकालक्रमेण, संसारस्यानादित्वात्, नपुनः सर्वजीवाः 'उपपन्ना' उत्पन्ना युगपत्, सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तताजगत्स्वाभाव्यात्, एवमेकैकस्याः पृतिव्यास्तावद्वक्तव्यं यावदधःसप्तम्याः । इमाणभंते!' इत्यादि, इयंच भदन्त! रत्नप्रभापृथिवी 'सव्वजीवेहिं विजढपुव्वा' इतिसर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद् विजढा' परित्यक्ता?,भगवानाहगौतम! इयरत्नप्रभापृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेणपरित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककालपरित्यागस्यासम्भवात् तथानिमित्ताभावात्, एवं तावद्वक्तव्यं यावदधःसप्तमी पृथ्वी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy