________________
प्रतिपत्तिः ३, नै० उद्देशकः 9
इमाणं भंते! रयणप्प० पु० केवतिआयामविक्खंभेणं ? पं० गोयमा ! असंखेजाई जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पन्नत्ते, एवं जाव अधेसत्तमा । इमा णं भंत ! रयणप्प० पु० अंते य मज्झे य सव्वत्थ समा बाहल्लेणं प० ?, हंता गो० इमाणं रयण० पु० अंते य मज्झे य सव्वत्थ समा बाहल्लेणं, एवं जाव अधेसत्तमा ॥
बृ. 'इमीसे ण'मित्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमान्ते घनोदधिवलयः कियद्वाहल्येन तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह - गौतम ! षड् योजनानि बाहल्येन - तिर्यग्बाहल्येन प्रज्ञप्तः, तत ऊर्ध्व प्रतिपृथिवि योजनस्य त्रिभागो वक्तव्यः, तद्यथा-शर्कराप्रभायाः सत्रिभागानि षड् योजनानि वालुकाप्रभायास्त्रिभागोनानि सप्त योजनानि पङ्कप्रभायाः परिपूर्णानि सप्त योजनानि घूमप्रभायाः सत्रिभागानि सप्त योजनानि तमः प्रभायास्त्रिभागोनान्यष्टौ योजनानि अधः सप्तमपृथिव्याः परिपूर्णान्यष्टौ योजनानि, सूत्राक्षराणि तु सर्वत्र पूर्ववद्योजनीयानि । सम्प्रति घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, अस्या रत्नप्रभायाः पृथिव्या घनवातवलयस्तिर्यग्बाहल्येनार्द्धपञ्चमानि - सार्द्धानि चत्वारि योजनानि प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि गव्यूतं वर्द्धनीयं तथा चाह - द्वितीयस्याः पृथिव्याः क्रोशोनानि पञ्च योजनानि, तृतीयस्याः पृथिव्याः परिपूर्णानि पञ्च योजनानि, चतुर्थ्याः पृथिव्याः सक्रोशानि पञ्च योजनानि, पञ्चम्याः पृथिव्या अर्द्धषष्ठानि - सार्द्धानि पञ्च योजनानि, षष्ठ्याः पृथिव्याः क्रोशोनानि षड् योजनानि, सप्तम्याः पृथिव्याः परिपूर्णानि षड् योजनानि ।
सम्प्रतितनुवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्यास्तनुवातवलयः 'कियत्' किंप्रमाणं 'बाहल्येन' तिर्यग्बाहल्येन प्रज्ञप्तः ?, भगवानाह - षट्कोशबाहल्येन प्रज्ञप्तः, अत ऊर्ध्वं तु प्रतिपृथिवि क्रोशस्य त्रिभागो वर्द्धनीयः, तथा चाह--द्वितीयस्याः पृथिव्याः सत्रिभागान् षट् क्रोशानू बाहल्येन प्रज्ञप्तः, तृतीयस्याः पृथिव्यास्त्रिभागोनान् सप्त क्रोशान् चतुर्थ्याः परिपूर्णान् सप्त क्रोशान् पञ्चभ्याः पृथिव्याः सत्रिभागान् सप्त क्रोशान् षष्ठ्याः पृथिव्यास्त्रिभागोनान् अष्टौक्रोशान्, सप्म्याः परिपूर्णान् अष्टी क्रोशान्, ॥१॥ “छच्चेव अद्धपंचमजोयणसडुं च होइ रयणाए । उदहीघनतनुवाया (उ) जहासंखेण निद्दिट्ठा || सतिभागगाउयं च तिभागो गाउयस्स बोद्धव्वो । आइधुवे पक्खेवो अहो अहो जाव सत्तमिया ॥
एतेषां च त्रयाणामपि घनोदध्यादिविभागानामेकत्र मीलने प्रतिपृथिवि यथोक्तमपान्तरालमानं भवति ।। सम्प्रत्येतेष्वेव घनोदध्यादिवलयेषु क्षेत्रच्छेदेन कृष्णवर्णाद्युपेतद्रव्यास्तित्वप्रतिपादनार्थमाह- 'इमीसे णं भंते!' इत्यादि, पूर्वदुभावनीयं, बाहल्यपरिमाणमपि घनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ॥ सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह-‘इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमिव संस्थितः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'वृत्तः 'चक्रवालतया परिवर्त्तुलो वलयस्यमध्यशुषिरस्य वृत्तविशेषस्याकारः - आकृतिर्वलयाकारः स इव संस्थानं वलयाकार संस्थानं तेन संस्थितो वलयाकार संस्थानसंस्थितः । कथमेवमवगम्यते वलयाकारसंस्थानसंस्थित इति ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
१०९