SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, नै०-उद्देशकः१ १०७ वक्तव्यानि। ननु चैताः सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, उच्यते, नेति ब्रूमः, यद्येवं ततः मू. (८१)इमीसेणंभंते! रयणप्प० पुढवीए पुरथिमिल्लातोउवरिमंता केवतियं अबाधाए लोयंते पन्नते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं दाहिणिल्लातो पञ्चस्थिमिल्लातो उत्तरिल्लातो। सक्करप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते प० गो० तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते प० एवं चउद्दिसिंपि। वालुयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहि तेरसहिंजोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं चउद्दिसिंपि, एवं सब्वासिं चउसुविदिवासुस पुच्छितव्वं । पंकप्प० चोदसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते । छडीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पन्नते । सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, एवं जाव उत्तरिल्लातो। इमीसे णं भंते ! रयण० पु० पुरथिमिल्ले चरिमंते कतिविधे पन्नते?, गोयमा ! तिविहे पन्नत्ते, तंजहा-घनोदधिवलए घनवायवलए तनुवायवलए। इमीसे णं भंते ! रयणप्य० पु० दाहिणिल्ले कतिविधे पन्नत्ते?, गोयमा ! तिविधे पन्नते, तंजहा-एवं जाव उत्तरिल्ले, एवं सब्वासिंजाव अधेसत्तमाए उत्तरिले ।। वृ. 'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओ' इति पूर्वदिग्माविनश्चरमान्तात् 'केवइयाए' इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरच्छिन्नःप्रज्ञप्तः?, भगवानाह-द्वादशयोजनानि, द्वादशयोजनप्रभाणयेत्यर्थः, अबाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति?-रत्नप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादर्वाग्अपान्तरालं द्वादशयोजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणंचोपलक्षणंतेन सर्वासुविदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यं, सेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधस्त्रिभागोनेन योजनेनाधिकैदशभिर्योजनैरवगन्तव्यः, तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासुदिक्षु विदिक्षु च चरमपर्यन्तादलोकादगपान्तरालं त्रिभागोनानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानित्रयोदशयोजनानि, पङ्कप्रभायाः परिपूर्णानिचतुर्दशयोजनानि, घूमप्रभायास्त्रिभागोनानि पञ्चदश योजनानि, तमःप्रभायाः सत्रिभागानि पञ्चदश योजनानि, अध-सप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि। अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत धनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादि ? इति प्रतिपादनार्थमाह-'इमी सेणंभंते' इत्यादि, अस्याभदन्त ! रत्नप्रभायाः पृथिव्याः पूर्वदिग्भावी 'चरमान्तः' 'कतिविघः' कतिप्रकारः कतिविभाग इत्यर्थ प्रज्ञप्तः?, भगवाना-गौतम! त्रिविधः प्रज्ञप्तः, तद्यथा-'घनोदघिवलयः' वलयाकारघनोदधिरूप इत्यर्थः, एवंधनवातवलयस्त-नुवातवलयश्च, इयमत्र भावना-सर्वासां पृथिवीनामधो यत्प्राग बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, तेहि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy