________________
प्रतिपत्तिः - ३, नै० उद्देशक: 9
१०३
रोख दाहिणपासे उत्तरपासे महारोरू ||"
रत्नप्रभादिषु च तमः प्रभापर्यन्तासु षट्सु पृथिवीषु प्रत्येकं नरकावासा द्विविधाः, तद्यथाआवलिकाप्रविष्टाः प्रकीर्णकरूपाश्च तत्र रत्नप्रभायां पृथिव्यां त्रयोदश प्रस्तटाः, प्रस्तटा नाम वेश्मभूमिकाकल्पाः, तत्र प्रथमप्रस्तटे पूर्वादिषु चतसृषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकावासाः, चतसृषुविदिक्षु प्रत्येकमष्टचत्वारिंशत्, मध्येच सीमन्तकाख्यो नरकेन्द्रकः, सर्वसङ्ख्यया प्रथमप्रस्तटे नरकावासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३८९ ।
शेषेषु च द्वादशसु प्रस्तटेषु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु चैकैकनरकावासहानिभावाद् अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, ततः सर्वसङ्ख्यया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंशदधिकानि ४४३३, शेषास्त्वेकोनत्रिंशल्लक्षाणि पञ्चनवतिसहस्राणि पञ्च शतानि सप्तषष्टयधिकानि २९९५५६७ प्रकीर्णकैः, तथा चोक्तम्॥१॥ "सत्तट्ठी पंचसया वणनउइसहस्स लक्खगुणतीसं । रयणाए सेढिगया चोयालसया उ तित्तीसं ।”
उभयमीलने त्रिशल्लक्षा नरकवासानां भवन्ति ३००००००।
शर्कराप्रभायामेकादश प्रस्तटाः, "नरकपटलान्यघोऽघो द्वन्द्वहीनानी" ति वचनात्, तत्र प्रथमे प्रस्तटे चतसृषु दिक्षु षट्त्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत्, मध्ये चैको नरकेन्द्रकः, सर्वसङ्ख्यया द्वे शते पञ्चाशीत्यशिके २८५, शेषेषु तु दशसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि-, प्रतिदिकप्रतिविदिक्षु (क्च) एकैकनरकावासहानेः, ततस्तत्र सर्वसङ्घययाऽऽ वलिकाप्रविष्टा नरकावासाः षड्विंशतिशतानि पञ्चनवत्यधिकानि २६९५, शेषाश्चतुर्विंशतिलक्षाः सप्तनवति सहस्रणि त्रीणि शतानि पञ्चोत्तराणि पुष्पावकीर्णकाः उक्तञ्च119 11 "सत्ताणउइ सहस्सा चउवीसं लक्ख तिसय पंचऽहिया ।
बीयाए सेढिया छव्वीससया उ पणनउया ।।"
उभयमीलने पञ्चविंशतिर्लक्षा नरकावासानाम् २५००००० १
वालुकाप्रभायांनव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशति विदिशि चतुर्विंशति मध्ये चैको नरेन्द्रक इति सर्वसङ्ख्यया सप्तनवतं शतं १७९, शेषेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानि, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाशचतुर्दश शतानि पञ्चाशीत्यदिकानि १४८५, शेषास्तु पुष्पावकीर्णकाश्चतुर्दश लक्षा अष्टनवति सहस्राणि पञ्च शतानि पञ्चदशाधिकानि उक्तञ्च119 11 “पंचसया पन्नारा अडनवइसहस्स लक्ख चोद्दस य । तइयाए सेढिगया पणसीया चोद्दससया उ ।। "
उभयमीलने पञ्चदश लक्षा नरकावासानाम् १५००००० ।
पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेनद्रकः सर्वसङ्ख्यया पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूरववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानि, ततः सर्वसङ्घयया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्वावकीर्णका नव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org