SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-१/८१ जोतिरसे ९ अंजणे १० अजलपुलए ११ रयते १२ जातरूवे १३ अंके १४ फलिहे १५ रिटे १६ कंडे । इमीसे णं भंते ! रयणप्पभापुढवीए रयणकंडे कतिविधे पन्नते?, गोयमा ! एगागारे पन्नत्ते, एवं जाय रिटे। इमीसे णं भंते ! रयणप्पभापुढवीए पंकबहुले कंडे कतिविधे पन्नत्ते?, गोयमा! एकागारे पन्नत्ते । एवं आवबहुले कंडे कतिविधे पन्नते?, गोयमा! एकागारे पन्नत्ते सकरप्पभा णं भंते ! पुढवी कतिविधा पन्नत्ता?, गोयमा! एकागारा पन्नता, एवं जाव अहेसत्तमा। वृ. इमाणंभंते' इत्यादिइयंभदन्त! रत्नप्रभा पृथिवी कतिविधा' कतिप्रकाराकतिविभागा प्रज्ञप्ता ?, भगवानाह-गौतम ! 'त्रिविधा' त्रिविभागा प्रज्ञप्ता, तद्यथा-'खरकाण्ड'मित्यादि, काण्डं नाम विशिष्टो भूभागः, खरं-कठिनं, पङ्कबहुलं ततोऽबबहुलं चान्वर्थतः प्रतिपत्तव्यं, क्रमश्चैतेषामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पङ्कबहुलं ततोऽबबहुलमिति । 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां खरकाण्डं कतिविधं प्रज्ञप्तं ?, भगवानाह-गौतम ! 'षोडशविधं' षोडशविभागंप्रज्ञप्त, तद्यथा _ 'रयणे' इति, पदैकदेशे पदसमुदायोपचाराद् रत्नकाण्डं तच्च प्रथम, द्वितीयं वज्रकाण्डं, तृतीयं वैडूर्यकाण्ड, चतुर्थं लोहितकाण्डं, पञ्चमं मसारगल्लकाण्डं, षष्ठं हंसगर्भकाण्डं, सप्तमं पुलककाण्डम्, अष्टमं सौगन्धिककाण्ड, नवमं ज्योतीरसकाण्ड, दशममञ्जनकाण्डम्, एकादशमञ्जनपुलककाण्ड, द्वादशं रजतकाण्डं, त्रयोदशं जातरूपकाण्डं, चतुर्दशमङ्गकाण्डं, पञ्चदशं स्फटिककाण्डं षोडशं रिष्टरलकाण्डं, तत्र रत्नानि-कर्केतनादीनि तप्रधानं काण्डं रलकाण्डं, वज्ररत्नप्रधान काण्डं वज्रकाण्डम्, एवं शेषाण्यपि, एकैकंच काण्डं योजनसहस्रबाहल्यम्। _ 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रलकाण्डं 'कतिविधं' कतिप्रकारं कतिविभागमिति भावः प्रज्ञप्तं?, भगवानाह-एकाकारंप्रज्ञप्तं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भावनीयानि । एवं पङ्गबहुलाब्बहुलविषयाण्यपि । 'दोचा णं भंते' इत्यादि, द्वितीयादिपृथिवीविषयाणि सूत्राणि पाठसिद्धानि ।। सम्प्रति प्रतिपृथिविनरकावाससङ्ख्याप्रतिपादनार्थमाह मू (८२) इमीसेणंभते! रयणप्पभाए पुढवीए केवइया निरवायाससयसहस्सा पन्नत्ता?, गो० तीसं निरयावाससयसहस्सा पन्नत्ता, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, इमा गाहा० वृ. 'इमीसे णं भंते' इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणिगाथामू. (८३) तीसाय पन्नवीसा पन्नरस दसेव तिन्नि य हवंती। पंचूणसयसहस्सं पंचेव अनुत्तरा नरगा। मू. (८४) जाव अहेसत्तमाए पंच अनुत्तरा महतिमहालया महाणरगा पन्नत्ता, तंजहा काले महाकाले रोरुए महारोरुए अपतिवाणे ॥ "तीसा य पन्नवीसा पन्नरस दस चेव सयसहस्साई। तिण्णेगं पंचूणं पंचेव अणुत्तरा निरया।" अघःसप्तम्यांचपृथिव्यांकालादयो महानरकाअप्रतिष्ठानाभिघस्य नरकस्यपूर्वादिक्रमेण, (उक्तञ्च) “पुव्वेण होइ कालो अवरेणं अप्पइट्ठ महकालो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy