________________
मूलं- ३१
कथं घट्टिता इत्याह-क्षोभितानां, स्वस्थानाच्चालमपि कुत इत्याह- उदीरितानामुत्-प्राबल्येन प्रेरितानां, कीशः शब्दः प्रज्ञप्तः ?, भगवानाह
'गोयमे' त्यादि, गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेह संग्रामरथः प्रत्येयोऽग्रेतनविशेषणानामन्यथाऽसंभवात्, तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते
२७५
'सछत्तस्स' इत्यादि, सच्छन्त्रस्य सध्वजस्य सघण्टाकस्य - उभयपाश्र्वावलम्बिमहाप्रमाणघण्टोपेतस्य सपताकरय सह तोरणवरं - प्रधानतोरणं यस्य ससतोरणवरस्तस्य, सह नन्दीघोषो - द्वादशतूर्यनिनादो यस्य स सन्दिघोषस्तरय, तथा सह किङ्किण्यः - क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि - यानि हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु - बहिप्रदेशेषु परिक्षिप्तो व्याप्तस्तस्य, तथा हैमवतं - हिमवत्पर्वतभावि चित्रं - विचित्रमनोहारिविशेषोपेतं तिनिशतरुसंबन्धि कनकविच्छुरितंदारु- काष्ठं यस्य स हैमवतचित्रतैनिक शकनकनिर्युक्तदारुकस्तस्य, सूत्रे च द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात् ।
तथा सुष्ठु - अतिशयेन सम्यक् पिनद्धं बद्धमरकमण्डलं धूश्च यस्य स सुसंपिनद्धारकमंडलघूः कस्तस्य, तथा कालायसेन - लोहेन सुष्ठु अतिशयेन कृतं नेमेः- बाह्यपरिघेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा- गुणैव्यापता ये वराः - प्रधानास्तुरगास्ते सुष्ठु - अतिशयेन सम्यक् प्रयुक्ता - योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको- दक्षः सारथिस्तेन सुष्ठुसम्यक् परिगृहीतस्य ।
तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत् तूणानि तैर्मण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्तं भवति ? – एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कण्टकः - कवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसः - शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सहचापं येषां ते सचाया ये शरा यानि च कुन्तभल्लिमुसण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकष्टकपप्रमुखानि आवरणानि तैर्भूतः - परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुणीभूतो यः स योधयुद्धसज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुद्दिमतले - मणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं कुडिमतलप्रदेशे वा ।
'अभिघट्टिजमाणस्से' ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पित्थं' श्वासुयुक्तमिति, तथा उत्प्राबल्येन अतितामलमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकं अनुनासि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org