________________
१९४
राजप्रश्नीयउपाङ्गसूत्रम् - १
सविस्तरमुक्तानीति सूत्रकृताङ्गगतिविशेषप्रकटनादिदमुपाङ्गं सूत्रकृताङ्गस्येति ।
एतद्वक्तव्यतां च भगवता वर्द्धमानस्वामिन गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यदीयत तदेतत्सर्वमभिवित्सुरिदमाह
सूर्याभदेवः प्रकरणं
मू. (१) ते णं काले णं ते णं समए णं आमलकप्पा नाम नयरी होत्था, रिद्धत्थिमिसमिद्धा जाव पासा दीया दरिसणिज्जा अभिरूवा पडिरूवा ।
वृ. 'ते णं काले णं ते णमित्यादि' 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थोयस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण'मिति वाक्यालङ्कारे, ष्टश्चान्यत्रापि शब्दो वाक्यालङ्कारार्थो यथा- 'इमाणं पुढवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणीचतुर्षविभागरूपे, अत्रापि णंशब्दो वाक्यालङकृतौ ।
'ते णं समए णं' समयोऽवसर' वाची, तथा च लोके वक्तारो - नाद्याप्येतस्य वक्तव्यस्य समयो वर्तते । किमुक्तं भवति ? - नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्त्तते दतः कथमुक्तमभवदिति ?, उच्यते वक्ष्यमाणवर्णक ग्रन्थोक्तविभूतिसमन्विता तदैवा भवत्, न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत्, उच्यते अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधमभाक् ।
सम्प्रत्यस्या नगर्यावर्णकमाह- रिद्धत्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा--भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषिवृद्धा 'विति वचनात्, स्तिमिता - स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिता:- प्रमोदवन्तः प्रमोदहेस्तवतूनां तत्र सद्भावान्, जनानगरीवास्तव्यलोकाः जानपदाःजनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैकराकीर्मा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकि विगिट्टलठ्ठपन्नत्तसउसीमा" हलानां शतैः सहस्रैश्च सङकृष्ठा विलिखिता विकृष्टाः नगर्या दूरवर्त्तिनी भावः, लष्टा - मनोज्ञा प्राज्ञैः छेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः ।
सेतुसीमा कुल्याजलसेक्य क्षेत्रसीमा यस्याः सा हलशतसहस्रसङ्कृष्टविकृष्टलष्टप्राज्ञातसेतुसीमा, 'कुक्कडसंडेयगामपउरा' कुक्कडसम्पात्या ग्रामाः सर्वासु दक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कडसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया' गावो- बलीवर्दा महिषाः - प्रतीता गावःस्रीगव्य एडका:- उरभ्रास्ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुवइविसिसन्निविट्ठबहुला' आकारवन्ति - सुन्दराकाराणि चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि - बहूनि यस्यां सा तथा, 'उक्कोडियगायगंठिभेदतकरखंडरकखरहिया' उत्कोटा - लच्चा तया चरन्ति उत्कोटिकास्तगत्रिभेदैः
For Private & Personal Use Only
Jain Education International
—
www.jainelibrary.org