________________
१९३
नमो नमो निम्मल देसणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः
१३ राजप्रश्नीय-उपाङ्गसूत्रं
स टी कं
द्वीतीयं उपाङ्गसूत्रम् (मूलम् + श्री मलयगिरि आचार्य चिरचिता वृत्तिः) ॥१॥
प्रणमत वीरजिनेश्वरचरणयुगंपरपाटलच्छायम् ।
अधरीकृतनतवासवमुकुटस्थितरलरुचिचक्रम् ॥ ॥२॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् ।
तत्रच शक्तिमशकिकं गुरवो जानन्ति का चिन्ता॥ अथकस्मादिदमुपाङ्गराजप्रश्नीयाभिधानमिति?, उच्यते, इहप्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान्जीवविषयान प्रश्नानकार्षीत्, यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान्, यच्च व्याकरणसम्यक्परिणनिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतःप्रथमेसौधर्मनाम्नि नाकलोके विमानामाधिपत्येनाधितिष्ठत्, यथाच विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानायोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाधितिष्ठत्, यथा च विमानाधिपत्यप्राप्तयनन्तरंसम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोकय भक्त्यतिशयपरीतचेताः सवेस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधिनाट्यमनरीनृत्यत् ।
नर्तित्वाच यथाऽऽपुष्कं दिविसुखमनुभूयततश्च्युत्वायत्रसमागत्य मुक्तिपदभवापस्याति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इति-राजप्रश्नेषु भवं राजप्रन्नीयं । अथ कस्याङ्गस्येदमुषाङ्गं ?, उच्यते, सूत्रकृताङ्गस्य कथं तदुपाङ्गतेति चेत्, उच्यते, सूत्रकृते ह्यङ्गे अशीत्यधिकंशतं क्रियावादिनां, चतुरशीतिरक्रियावादिनां, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशद्वैनयिकानां, सर्वसङ्घयया त्रीणि शतानि त्रिषष्ट्यधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः स्थाप्यते, उक्तं च नन्द्यध्ययने-१“सुयंगडे णं असीयसयं किरिआवाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अन्नाणियवाईणं बत्तीसा वेणइयवाईणं तिण्हं तेवट्ठाणं पासंडियसयाणं नियूहं किच्चा ससमए ठाविजई त्ति, प्रदेशी च राजा पूर्वमक्रिया वादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलम्य जीवविषयान्प्रश्नानकरोत्, केशिकुमारश्रमणश्चगणधारी सूत्रकृ ताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षित्।
ततोयान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org