________________
२६८
राजप्रश्नीयउपाङ्गसूत्रम्-२९
तथा पञ्जरात उन्मीलिता इव-बहिष्कृइव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पारात्-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इति भावः, तथामणिकनकानि-मणिकनकमय्यःस्तूपिकाः-शिखराणि येषां तेमणिकनकस्तूपिकाः, तथा विकसितानियानि शतपत्राणि पुण्डरीकाणि च द्वारादीप्रतिकृतित्वेन स्थितानि तिलकरलानि भित्यादिषुपुण्डविशेषाअर्द्धचन्द्राश्च द्वारादिषु तैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङकृतानि-शोभितानि नानामणिदामालङकृतानि
तथा अन्तर्बहिश्च श्लक्षणा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तटः-- प्रस्तारो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकान्तमन्तमिवर्णनमुपर्यल्लोकवर्णनं सिंहासनवर्णनमुपरिविजयदूप्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयं । 'तेसिण मित्यादि, षांद्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्या षोडश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरमानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेषं भावनीयं, 'तेसिणं तोरणाण पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येक द्वे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत् ।
"तेसिण'मित्यादि, तेषांतोरणानां पुरतोद्वौ द्वौनागदन्तकौ प्रज्ञप्तौ, तेषांच नागदन्तकानां वर्णनं यथाऽघस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्, 'तेसिण'मित्यादि तेषांतोरणानां पुरतो द्वौ द्वौ हयसङ्घाटी, सङ्घाटशब्दोयुग्मवाची यथा साधुसङ्घाट इत्यत्र, ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं गजनरकिनकिंपुरुपमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता! ? इत्याह-सब्बरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कायोऽपिवीथयोऽपि मिथुनकानिचवाच्यानि, तत्र सङ्घाटाः समानलिङ्गयुमरूपा पुष्पावकीर्णकाश्च एकदिगव्यवस्थिताः श्रेणिपङ्कितरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथि स्त्रीपुरुषयुग्मं मिथुनकं 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वेद्वेचूतलते द्वेद्वे वासन्तीलते द्वे द्वे कुन्दलतेवेद्वे अतिमुक्तलते इति परिगृह्ययते, द्वेद्वेश्यामलते, ताश्च कथम्भूता इत्याह
"निच्चं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निचं थवइयाओ निच्चं गुछियाओ निच्चं जमलियाओ निच्चं विनमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपिण्डमञ्जरिवांडेंसगधराओ निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमयसुविभत्तपडिमञ्जरिवडिंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथम्भूता इत्याह-'सव्वरणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः ।
'तेसिण'मित्यादि, तेषां तोरणानां पुरतः प्रत्येक द्वौ द्वौ दिक्सौवस्तिकौ–दिक्प्रोक्षको ते च सर्वे जाम्बूनदमयाः, क्वचित्पाठः सव्वरयणामयाअच्छा इत्यादि, प्राग्वत् 'तेसिण'मित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org