________________
२६७
मूलं- २९
यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा ओघेन - प्रवाहेण स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घ स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चास्वराः सिंहस्येव च प्रभूतेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दि नन्दिस्वराः नन्दिवत् घोषो - ह्रादो यासां ता नन्दिघोषाः मञ्जू - प्रियः स्वरो यासां ता मञ्जूस्वरा, एवं मञ्जूघोषाः, किं बहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण 'मित्यादि प्राग्वत् ।
'तेसि ण 'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश २ वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये चपल्लवास्तैः समाकुलाः - सम्मिश्राः 'छप्पयपरिभुजमाणा सोमन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षटषदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टं प्राग्वत् ।
'तेसि णं दाराण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडस २ प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार:- 'प्रकण्ठी पीठविशेषा' विति, तेच प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशि- पञ्चविंशत्यधिकं योजनशतं 'बाहल्येन' पिण्डभावेन 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत् ।
तेसि णं पगंठगाणमित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एक प्रति प्रत्येकमित्याभिमुख्ये वर्त्तमानः प्रतिशब्दः समस्यते, ततो वीप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः उक्तं च जीवाभिगममूलटीकायां“प्रासादावतंसकौःप्रासादविशेषा' विति, तेच प्रासादवतंसकं अर्घतृतीयानियोजनशतानि ऊर्ध्वम् उच्चैस्तेवन पञ्चविंशंयोजनशतं विष्कम्भेन, 'अब्मुग्गयमूयपहसियाविव' अभ्युद्गता - आभिमुख्येन सर्वतो विनिर्गता उत्सृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव - बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः ।
'विविहमणिरयणभत्तिचित्ता' विविधाः अनेकप्रकारा ये मणयः -- चन्द्रकान्तादयो यानि च रत्नानि - कर्केतनादीनि तेषां भक्तिभि- विच्छित्तिविशेषैश्चित्रा - नानारूपाः आश्चर्यवन्तो वा वा नानाविधमणिरत्नभक्तिचित्राः, 'वाउयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूतावायुकम्पिता विजयः - अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पाकास्ता एव विजयवर्जिता छत्रातिछत्राणि उपर्युपरिस्थितान्यातपत्राणितैः कलिता बातोद्धूतविजयवैजयन्ती पताकाछत्रातिच्छत्रकलिताः, तुङ्गो - उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमनुलिहंतसिहरा' इति गगनतलं - अम्बरतलम् अनुलिखन्ति-अभिलङ्घयन्ति शिखराणि येषां ते तथा, जालानि जालकानि तानि भवनभित्तिषु लोके प्रतितानि, तदन्तेषु विशिष्ट शोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org