________________
२६९
मूलं-२९ द्वौ द्वौचन्दनकलशौ प्रज्ञप्ती, वर्णकः चन्दनकलशानां वरकमलपइट्ठाणा इत्यादिरूपःसर्वप्राक्तनो वक्तव्यः, 'तेसि णमित्यादि द्वौ द्वौ भृङ्गारी, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ‘महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो !' इति वक्तयं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो य गजस्तस्य महत्-अतिविशालं यत् मुखं तायाकृतिआकारस्तत्समानाः-तत्सशाः प्रज्ञप्ताः, 'तेसिण'मित्यादि तेषांतोरणानांपुरतो द्वौ द्वावादर्शको प्रस्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्मयानि मंडलानि यत्र प्रतिबिंबसम्भूति 'अनोग्घसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलताअवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मलाअनवधर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसहशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-कायार्द्धरमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! -
तेसिणमित्यादि तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते तानि च स्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्ठडिपुन्ना इव चिटुंति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन वारान्छटिताः अत एव 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिछटिता येषां ते तथा सुखादिदर्शनात् क्तान्तस्य परनिपातः अच्छैस्त्रिच्छटितैः शालितण्डुलै खसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवसाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमणः हे आयुष्मन् !।
_ 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वे हे 'पाईओ' इति पात्र्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'सच्छोदगपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णा नानाविहस्सफलहरियस्सबहुपडिपुन्नाविवे'ति अत्र षष्ठी तृतीयार्थे 'बहु पडिपुग्ने ति चैकवचनं प्राकृततत्वात्, नानाविधैः फलहरितैर्हरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्तिनखलु तानि फलानि किंतु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणाममास्ततः उपमानमिति, ‘सव्वरयणामईओ' इत्यादि प्राग्वत्, ‘महये'ति अतिशयेन महत्यो गोकलिअगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् ! -
_ 'तेसि णमित्यादि तेषां तोरणाना पुरतो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णै प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्, “सव्वरयणामइओ' इत्यादि तथैव, 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो वे द्वे मनोगुलिका नाम पीठिका, उक्तं ख जीवाभिगममूलटीकायां-“मनोगुलाकि नाम पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि प्राग्वत् । तासु णं मनोगुलियासुबहवे' इत्यादि तासुमनोगुलिकासुसुवर्णमयानि रूप्यमयानिच फलकानिप्रज्ञप्तानि तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः-अङ्कुटकाः (सिवकेषु) तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्कानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org