________________
२५६
राजप्रश्नीयउपाङ्गसूत्रम्- २६
इत्यर्थः, तता कथममुमर्थं भगवान् प्ररूपयिष्यति इति, तथा 'उप्पन्नसड्ढे' उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्न श्रद्धः अथ जातश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वा, नहिं अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि
कथं प्रवृत्तश्रद्धः ?, उच्यते, यत उत्पन्नश्रद्धः, इति हतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी' मियत्र, अत्र हि यद्यपि प्रवृत्तिदीपादित्वादेवाप्रवृत्त भास्करत्वमुपगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, 'उप्पन्नसड्डे उप्पन्नसंसये' इति प्राग्वत्, तथा 'संजायसड्डे इत्यादि पदषटकं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो वेदितव्यः, 'उट्ठाए उट्ठेइ ' त्ति उत्थानमुत्था - ऊर्द्धवर्तनं तया उत्तिष्ठति, इह 'उट्ठेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तुमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय 'जेणेवे' त्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेवे 'ति तस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं त्रिकृत्वः - त्रिवारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीक्तय च वन्दते नमस्यति वन्दित्वा नमस्सियत्वा एवमवादीत् । 'सूरियामस्स णं भंते!' इत्यादि, 'कहिंगए' इति क गतः ?, तत्र गमनमन्तरप्रवेशाभावेऽपि ६ष्टं यथा भित्तौ गतो धूलिरिति, एषोऽपि दिवयानुभावो यद्येवं कचित्प्रत्यासन्ने प्रदेशे गतः स्यात्ततो ६श्येत न चासौ दृश्यते, ततो भूयः पृच्छति - 'कहं अणुपविट्टे' इति कानुप्रविष्टः ? क्वान्तर्लीन इति भावः ।
भगवानाह - गौतमः शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति - 'से केणट्टेण 'मित्यादि, अथ केनार्थेन केन हेतुना भदन्त ! एवमुच्यते- शरीरं गतः शरीरमनुप्रविष्ट ?, भगवानाह - गौतम 'से जहानामए' इत्यादि, कूटस्येव - पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शाला च कूटाकारशाला, यदिवा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला स्यात्, 'दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता - बहिप्रकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा - केषाञ्चित् द्वाराणां स्थगितत्वात् केषाञ्चिच्चास्थगितत्वादिति निविता - वायोरप्रवेशात् किल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला इत्यर्थः, ततस्तस्याः कूटाकारशालाया अदूरसामन्ते - नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्टाति ।
स च एकं महत् अभ्ररूपं बाद्दलं अभ्रबाद्दलं, दाराभिपातरहितं सम्भाव्यवर्षं बार्दलमित्यर्थः, वर्षप्रधानं बालकं वर्षबार्दलकं वर्षं कुर्वन्तं बादलकं महावातं वा 'एजमाण' मिति आयान्तंआगच्छन्तं पश्यति, दृष्ट्वा चतं 'कूडागारसालं' द्वितीया षष्ठयर्थे तस्याः कूटाकारशालाया अनन्तरं ततोऽनुप्रविश्य तिष्ठति, एवं सूर्याभस्यापि देवस्य सा तता विशाला दिव्या देवर्धिर्दिव्या देवत्युतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से केणट्टेणं' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते- 'सूरियाभस्से' त्यादि, भूयो गौतमः पृच्छति
मू. (२७) कहि ण भंते! सूरियाभस्स देवस्स सूरिया नामं विमाने पन्नत्ते ?, गोयमा !
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International