________________
मूलं - २६
२५५
भस्मसात्कृतानीति 'महातवे' इति महान् - प्रशस्तमाशंसादोषरहितत्वात् तपो यस्य स महातपाः, तथा 'उरहाले' इति, उदारः - प्रधानः अथवा उरालो - भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्वानामतिप्रभानक इति भावः ।
तथा घोरो - निर्घृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत्, तथा घोरा - अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' इति उच्छूढम् उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संखित्तविउलतेउलेसे' इति सङ्क्षिप्ता - शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुलाविस्तीर्णा अनेकयोजन प्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुवी' इति चतुर्द्दश पूर्व्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्द्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह
-
'चउनाणोवगए' मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उकतविशेषणद्वययुक्योऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्द्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह- 'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः - संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ? - या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टथेो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्टाचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादूरसामन्ते विहरतीति योगः, तत् दूरं - विष्कृष्टं सामन्तं सन्निकृष्टं तव्प्रतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह
'ऊड्ढजाण अहोसिरे' ऊर्ध्वं जानुनी यस्यासावूर्ध्वजानुः अधः शिरा नोर्ध्वं तिर्यग्वा विक्षिप्तर्दृष्टि किन्तु नियतभूभागनियमितदृष्टिरित्यर्थः, 'झाणकोट्ठोवगए' इति ध्यानं - धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तम्विप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तः करणवृत्तिरित्यर्थः, 'संयमेन' पञ्चाश्रवनिरोदिलक्षणेन तपसा अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थं, प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्म्मनिर्जराहेतुत्वेन, तथाहि - अभिनवकर्मानुपादानात् पुराणकर्म्मक्षपणाच्च जायते सकलकर्म्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति 'अप्पाणं भावेमाणे विहरति' इति, आत्मानं वासयन् तिष्ठति ।
'तएण 'मित्यादि, ततो ध्यानकोष्ठोपगतविहरणादनन्तरं 'ण' मिति वाक्यालङ्कारे स भगवान् गौतमो 'जातसङ्के' इत्यादि, जात श्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र जाता - प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थत्वावगमंप्रति यस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थं ज्ञानं, स चैवं- इत्तं नामास्य दिव्या देवर्द्धिर्विस्तृता अभवत् इदानीं साकव गतेति, तथा 'जायकुतूहले ' इति जातं कुतूहलं यस्य स जातकुतूहलः, जातौत्सुक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org