________________
२५४
राजप्रश्नीयउपाङ्गसूत्रम्- २६
वन्दित्वा नमस्थित्वा 'एवं' वक्ष्यमाणप्रकारेणावादीत्, पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जिट्ठे अंतेवासी' इत्यादि, अस्य व्याख्यातस्मिन् काले तस्मिन् समये णंशब्दो वाक्यालङ्कार्थं, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ' इति प्रथमोऽन्तेवासी - शिष्यः, अनेन पदद्वयेन तस्य सकलसमाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं नामेतिप्राकृतत्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यं एवमन्यत्रापि यथायोगं भावनीयम्, अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशङ्काव्यवच्छेदार्थमाह
'अनगारः ' न विद्यते अगारं-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमाह्वयगोत्रसमन्वित इत्यर्थ, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह- सप्तोत्सेधः - सप्तहस्त प्रमाणशरीरोच्छ्रायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह- 'समचउरंससंठाणसंठिए' इति, समाःशरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽप्रयो यस्य तत् समचतुरस्र अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः ।
अन्ये त्वाहुः -- समा-अन्यूनाधिकाश्चतस्नोऽप्यस्नयो तत्र तत् समचतुरस्र तच्च तत् संस्थानं च, संस्थानम् - आकारः तच, वामदक्षिणजान्वोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, अपरे त्वाहुः - विस्तारोत्सेधयोः समत्वात् समचतुरस्र तच्च तत्संस्थानं च २, संस्थानम् - आकारस्तेन संस्थितो- व्यवस्थितो यः स तथा 'जावउट्ठाए उडेइ' इति यावत्करणात् 'वञ्जरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीसे संखित्तविपुलतेयलेसे चउदसपुवी चउनाणोवए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामन्ते उडुंजाणु अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
तणं से भगवं गोय जायसङ्के जायसंसए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायस संजायसंसए संजायकोउहल्ले समुप्पन्नस समुप्पन्नसंसए समुप्पन्न कोउहल्ले उडाए उट्ठेइ' इति द्रष्टव्यं तत्र नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंपं संहननं यस्य स तथा तता कनकस्य- सुवर्णस्य यः पुलको -लवस्तस्य यो निकपः - कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेस- राण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोकोवदति-स्पृष्टो मया देवदत्त इति ।
कनकपुलकनिकषवत् पद्मवश्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको - द्रवत्वे सति बिन्दुस्य निकषो वर्णतः सदृशः कनकपुलकनिकपः, तथा पद्मवत्पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्म्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह- 'उग्गतवे' इति, उग्रम्-अधृष्यं तपः - अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनस तद्विधेन तपसा युक्त इत्यर्थ, तथा दीप्तंजाज्वल्यमान दहन इव कर्म्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्म्मध्यानादि यस्य स तथा, 'तततवे' इति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International