________________
मूलं-१६
२३७
अगवरपंचवण्णकुडभीसहस्सुस्सिए (परिमंयाभिरामे) वाखुयविजयवेजयंतीपडागच्छत्तातिच्छतकलिते तुंगे गगनतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुवीए संपत्थिए । तयानंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहानुपुव्विए संपत्थिया ।
तयानंतरं च णं बहवे आभिओगिया देवा देवीओ य सएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विंदेहिं सएहिं २ नेज्जाएहिं सएहिं २ नेवत्थेहिं पुरतो अहाणुपुव्वीए संपत्थिया) तयानंतरं चणं सूरियाभविमाणवासिणो बहवे बेमाणिया देवा य देवीओ य सव्विड्ढीए जाव रूवेणं सुरियाभं देवं पुरतो पासतो य मग्गतो य समनुगच्छंति ॥
बृ. 'तएण से सेख्याभेदेवे' इत्यादि, दिव्यं - प्रधानं जिनेन्द्रस्य - भगवतो वर्त्यमानस्वामिनोऽभिगमनाय - अभिमुखं गमनाय योग्यम् - उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैकियं रूपं विकुर्व्वति, विकुर्व्वित्वा चतसृभिरग्रमहिषीभि सपरिवाराभिर्द्वाभ्यामनीकाभ्यां, तद्यथा - गन्धर्वानीकेन नाट्यानीकेन च, सार्द्धं, तत्र सहभावः स्वस्वाभिभावमन्तरेणापि दृष्टो यथा समानगुणविभवयोर्द्वयोर्मित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह- 'संपरिवुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः--सम्परिवृतः तत् दिव्यं यानावमान मनुप्रदक्षिणी कुर्वन् - पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति - स्विंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइ' त्ति आरोहति, आरुह्य च 'जेणेव 'ति यस्मिन्नेव देशे तस्य मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन्पूर्वाभिमुखः ‘सन्निषण्णः' सम्यक् सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः
'तए णमि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्य यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, पुव्वनवत्येहिं' इत्यादि, अत्र सम्पम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति ।
'तए मि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा - 'सोत्थियसिरिवच्छेत्यादि, पूर्वं स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः ? इत्याह- 'दर्शनरतिका' दर्शने - अवलोकने रतिर्यासु ता दर्शनरतिकाः, इह दर्शनर - तिकमपि किञ्चिदालोकदर्शनीयं न भवत्यमङ्गलत्वात् यता गर्भवती युवतिः, अत आह-आलोकेबहि प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात्, अन्ये त्वाहुः- आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्धुता विजयसुचिका वैजयन्तीति विजयवैजयन्ती च उत्सृता - ऊर्ध्वकृता गगनतलम् - अम्बरतलमनुलिखन्ती - भिलङ्घयन्ती 'पुरतो' यथानुपूर्व्या सम्प्रस्थिता ।
'तयानंतरं च णमित्यादि, तदनन्तरं 'वेरुलियभिसंतविमलदंड' मिति 'वैडूर्यो' वैडूर्यरत्नमयो भिसंतो- दीप्यमानो विमलोनिर्मलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय' मिति, प्रलम्बते इति प्रलम्बि तेन - प्रलम्बमानेन कोरण्टमाल्यदाम्ना - कोरण्टपुष्पमालयोपशोभितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org