________________
राजप्रश्नीयउपाङ्गसूत्रम् - १६ प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्तया शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्ध्वकृतं विमलमातपत्र तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या - विच्छित्या चित्रं यत् तन्मणिरतन्भक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त' मिति, पादुकायोगः - पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमि' ति बहुभि किङ्करैः किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूर्व्या सम्प्रस्थितं ।
तदनन्तरं 'वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिए' त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं - वर्तुलं लष्टं - मनोज्ञं संस्थितं- संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा सुश्लिष्ट:शुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशानया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाणाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यक्पतिततया वक्रः तत एतेषां पदानां पदद्वयमीलनेन कर्म्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः अतिशायी, तथा अनेकानि - अनेकसङ्ख्याकानि वराणि - प्रधानानि पञ्चवर्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवर पञ्चवर्णकुडभीसहस्रनोत्सृतः क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोद्धूतविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलितः, तुङ्गः - अत्युच्चो योजनसहस्रप्रमाणोच्छ्रयत्वात्, तथा गगनतलम् - अम्बरतलमनुलिखत् शिखरम् अग्रभागो अस्य स तथा योजनसहनमुत्सृतः अत एव 'महमहालए' इति । अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं परिगृहीतं यैस्ते तथा, तथा सुष्ठु - अतिशयेन सज्जाःपरिपूर्णा स्वसामग्रीसमायुक्ततया प्रगुणीभूताः सर्वालङ्गारविभूषिताः 'महता भडचडगरपहकरेणं'ति महता-अतिशयेन भटचटकरपहकरेणचटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथाऽनुपूर्व्या सम्प्रस्थिताः । तदनन्दरं च सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वर्ध्या यावत्करणात् 'सव्वजुईए सव्वबलेण' मित्यादि परिग्रहः, सूर्याभं देवं पुरतः पार्श्वतो मार्गतः - पृष्ठतः समनुगच्छति ।
मू. (१७) तए णं से सूरियाभे देवे तेणं पंचानीयपरिखित्तेणं वइरामयवट्टलसंठिएण जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्ढिज्जमाणेणं चउहिं सामानियसहस्सेहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विडिए जाव रवेणं
-सोधम्मस्स कप्परस मज्झमज्झेणं तं दिव्वं देविड्डि दिव्वं देवजुतिं दिव्वं देवानुभावं उवदंसेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले निज्जाणमग्गे तेणेव उवागच्छति, २ जोयणसय साहस्सितेहिं विग्गहेहिं ओवयमामे वीतवयमाणे ताए उक्कट्ठाए जाव तिरियमसंखिजाणं दीवसमुद्दाणं मज्झमज्झेणं वीइवयमाणे २ -
२३८
"
-जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपव्वते तेणेव उवागच्छति २ त्ता तं दिव्वं देविडिं जाव दिव्वं देवानुभावं पडिसाहरेमाणेर पडिसंखेवेमाणे २ जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबलासवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org