________________
२०४
राजप्रश्नीयउपाङ्गसूत्रम्-४ दुभिक्खदोसमारिभयविप्पमुक्क खेमं सिवं सुभिक्खं पसंतडिंबडमर रजं पसासेमाणे विहरइ।
तस्स णं सेयोरन्नो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा सुरूवा करयलपरिमियपसत्थतिवलिबलियमज्झा कुंडलुल्लिहिय (वीण) गंडलेहा कोमुइयरयणियरविमलपडिपुन्नसोमवयणा सिंगारागारचारूवेसा संगयगसहसियभणियचिट्ठियविलासललियसंलावन्उणजुत्तोक्यारकुसला सुंदरथणजघनवयणकरचरणनयनायण्णविलासकलिया सेएण रन्ना सद्धिं अनुरता अविरत्ता इट्टे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सएकामभोगे पञ्चणुभवमामा विहरई एष राजदेवीवर्णकः।।
____ अस्य व्याख्या-'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतोमन्दरो मेरुर्महेन्द्रः-शक्रदिकोदेवराजस्तद्वत सार:प्रधानो महाहिमवन्महामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्धे राजकुलवंशेप्रसूतोऽत्यन्तविशुद्धराजकुलवंशप्रसूतः,तथा निरन्तरंरायलकखमविराइयंगमंगे' इति निरन्तरम् अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यसूचकैर्लक्षणैर्विराजितानि अङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षमविराजिताङ्गमङ्गः, तथा बहुभिर्जनः बहुमानेन–अन्तरङ्गप्रीत्या पूजितो बुजनबहुमानपूजितः, कस्मादित्याह।।
___ 'सव्वगुणसमिद्धे' सर्वै शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः- सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो, गुणवत्सुप्रायः सर्वेषामपिबहुमानसम्भवात्, तथा खत्तिये इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इतिइयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत्राजकुलप्रसूतोऽपिन हीनजातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्षवान्, प्रत्यनीकोपद्रवासम्भवात्, तदसम्भवस्व प्रत्यनीकानामेवाभावात्, तथा चाह-'मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य सूर्द्धभि मस्तकैरभिषिक्तः-पूजितो मूर्धाभिषिक्तः, तथामातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया (द्रव्य)प्राप्तः स्वभावतः सुद्धजीवद्रव्यत्वाद् ।।
तथा सेवागतानामपूर्वापूर्वनृपाणां सीमां-मर्यादां करोति यथा एवं वर्तितव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति-पालयति न तुविलुम्पतीतिसीमन्धरः,तता क्षेमं वशवर्तिनां उपद्रवाभावं करोति क्षेमकरःचौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येनद्र, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह–'जनपदपालः' जनपदंपालयतीतिजनपदपालः, ततो भवति जनपदस्य पितेव, तथाजनपदस्य शान्तिकरितया पुरोहितइह जनपदपुरोहितः,तथा सेतुः-मार्गस्तं करोतीती सेतुकरः,मार्गदशक इतिभावः, केतुः-चिहन्न तत्करोतीतिकेतुकरः,अद्भुतसंविधानकारीतिभावः, तथा नरेषु मनुष्येषुमध्येप्रवरो नरप्रवरः सच सामान्यमनुष्यापेक्षयापि स्यादत आह
'पुरिसवरे' पुरुषेषु-पुरुषाभिमानानेषु मध्ये वरः-प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्तिमल्लतया पुरुषसिंहः, तथा पुरुषोव्याघ्रइवशूरतया पुरुषव्याघ्रः, पुरुष आसीविष इव दोषविनाशनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org