________________
मूलं-४
२०५ भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसहमानान् प्रतीति पुरुषवरगन्धहस्तीततो भवतिपुरुषवरः, तथा आढयः-समृद्धोदीप्तःशरीरत्वचा देदीप्यमानत्वात्
तो वा दप्तारिमानमर्दनशीलत्वात् अत एव वित्तो-जगत्यतीतो, यदुक्तमाढय इति तदेव सावस्तिरमुपदर्शयति-'विच्छिन्ने'त्यादि, विस्तीर्णानि विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणिशयनानि आसनानिचप्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादीनि एतैराकीर्णो-व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयावाहनाकीर्णः।
तथा बहुधनं बहुजातरूपं-सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्प्रयुक्तः आवाहनविसर्जनकुशलः, तथा विच्छर्दितं-तथाविध-विशिष्टोप्रकाराकारितया विसृष्टमुकुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवद्दनिां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततःस्वार्थिकप्रत्ययविधानात्प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्ठागाराणि यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि धान्यानां कोष्ठागाराणिगृहाणि इतिभावः, आयुधगृहाणिच यस्यस प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः
तथा बलं शारीरिक मानसिकं च यस्यास्ति स बलवान्, दुर्बलप्रत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन्राज्यं प्रशासत् विहरति-अवतिष्ठते इति योगः, कथम्भूत राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रवकारिणश्चरटाः कण्टकाःते अपहताअवकाशानासादनेन स्थगितायस्मिन्तत्अपहतकण्टकं, तथा मलिताः- उपद्रवं कुर्वाणामानम्लानिमाषादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्ध ताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्ध तकण्टकं, तथा न विद्यतेप्रतिमल्लः कण्टकोयत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तन्निहतशत्रु।
___ तथा मलिताःतद्गतसैन्यत्रासापादनतोमानम्लानिमापादिताःशत्रवोयत्र तत्मलिनशत्रु, तथास्वातन्त्रयच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेनवा उद्ध ताः शत्रवोयत्रतत् उद्धृतशत्रु, एतदेव विशेषणद्वयेन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि तथा भयेन स्वदेशीत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेम-निरुपद्रवं शिवं-शान्तं सुमिदं शोभना-शुभाभिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षं, तता प्रशान्तानि डिम्बानि-विघ्ना इमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्पशान्तडिम्बडमरं । देवीवर्णकं- 'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अनानि अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन्तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरा, तथा लक्षणानि-स्वस्तिकचक्रदीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्यैरुपपेता लक्षणव्यञ्जनगुणोपपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मान-जलद्रोणप्रमाणता, कथमिति चेत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org