________________
३१६
राजप्रश्नीयउपाङ्गसूत्रम्-४८
नो विनयं पउंजइ, समण० सयस्सवि यणं जनवयस्स नो सम्मं करभरवित्तिं पवत्तेइ ।।
वृ.'केइयअद्धेजणवएहोत्था केकयीनामा-अर्धमात्रमार्यत्वेनेति गम्यते, सहि परिपूर्णो जनपदः, केवलमर्धमार्थमर्द्ध चानार्यमार्येण चेह प्रयोजनमित्युद्धमित्युक्तं, जनपद आसीत, 'सव्वोउयफलसमिद्धे रम्मे नंदनवनप्पकासे' इत्यादि, सर्वर्तुकैः-सर्वर्तुभाविभि पुष्पैः फलैश्च समृद्धिमत्, एवं रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते' त्यादि राजवर्णनं प्राग्वत्, 'धम्मिए' इति धर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, तत्र सामान्यतोऽप्यधार्मिकः स्यादत आहअधर्मिष्ट:--अथिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति।
'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकतेपरिभावयतीत्येवंशीलोऽधर्मप्रलोकी 'अधम्मप्पजणणे' इतिअधर्मप्रकर्षणजनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननःअधर्मशीलसमुदाचारोनधर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मेणैव वृत्ति-सर्वजन्तूनां यापनां कल्पयन् ‘हणछिंदभिंदापवत्तए' जहिं छिद्धि भिंद्धि' इत्येवं प्रवर्तकोऽतएव लोहितपाणि-मारयित्वाहस्तयोरप्यप्रक्षालनात् अतएव पापः पापकर्मकारित्वात् चण्डः तीव्रकोपावेशात् रौद्रो निस्तृशकर्मकारित्वात् साहसिकः परलोकभयाभावात्।
"उचंचणवंचणमायानियडिकूककवडसाइसंपओगबहुले' इति ऊर्ध्व कंचन- मुत्कंचनंहीनगुणस्य गुणोत्कर्षप्रतिपादनं वंचनं-प्रतारणं माया-परवंचनबुद्धि निकृति-बकवृत्या गलकर्त्तकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपटनेपथ्यभाषाविपर्ययकरणं एभिरुत्कञ्चनादिभि सहातिशयेनयः संप्रयोगो-योगस्तेन बहुलः, अथवा सातिसंप्रयोगो नाम यः सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्रकृताङ्गचूर्णिकृता॥१॥ “सो होइ साइजोगो दव्वंज छुहिय अन्नदव्वेसुं।
दोसगुणा वयणेसुयअस्थविसंवायणं कुणइ॥” इति । तत्संप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचनं नाम उत्कोचा, निकृतिवञ्चनप्रच्छादनकर्म सातिः-क्षान्त्यादिगुणाभावात् निर्मर्यादः परीपरिहारादिमर्यादालोपित्वात् निष्प्रत्याखयानपोषधोपवासः-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनायनिर्मूलाभावीकरहणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः।
न च गुरूणां-पित्रादीनामगच्छतानामभ्युत्तिष्ठति-अभिमुखमूवं तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुक्ते, नापि स्वकस्यापिआत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्तिं प्रवर्त्तयति॥
मू. (४९) तस्सणंपएसिस्स रन्नो सूरियकता नाम देवी होत्था, सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रम्ना साद्ध अनरत्ता अविरत्ता इढे सद्दे रूवे जाव विहरइ ।।
वृ.तस्सणंपएसिस्सरनोसूरीकंतानाम देवी होत्या, सुकुमालपाणिपाया इत्यादिदेवीवर्णनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org