________________
१५२
औपपातिकउपाङ्गसूत्रम्-३४
'उक्कंचणयाए वंचणयाए 'त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिदविदग्धचित्तरक्षार्थं क्षणव्यापारतयाऽवस्थानं वञ्चनता-प्रतारणं 'पगइभद्दयाए 'त्ति प्रकृतिभद्रकता स्वभावत् एवापरोपतापिता 'साणुक्कोसयाए 'त्ति सानुक्रोशता - सदयता 'तमाइक्खइ' त्ति तं धर्ममाख्यातीति धर्मकथानिगमनम् । मू. (३५)
मू. (३६)
पू. (३७)
जह नरगा गम्मंति जे नरगा जा य वेयणा नरए । सारीरमाणसाई दुखाइं तिरिक्खजोणीए । माणुस्सं च अनिच्चं वाहिजरामरणवेयणापउरं । देवे अ देवलोए देविड्ढि देवसोक्खाई ।। नरगं तिरिक्खजोणिं माणुसभावं च देवलोअं च । सिद्धे अ सिद्धवसहि छज्जीवणियं परिकहेइ । जह जीवा बज्झति मुच्चंति जह य परिकिलिस्संति । जह दुक्खाणं अंत करंति केई अपडिबद्धा ॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुविंति । जह वेरग्गमुवगया कम्मसमुग्गं बिहाडंति ॥
मू. (३८)
पू. (३९)
वृ. अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह - 'जह नरगा गम्मन्ती' त्यादिगाथापञ्चकं, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं चे 'त्यादि गाथा उक्तसङ्ग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ता - शरीरतो दुःखिता आर्तितचित्ताःशोकादिपीडिताः आर्ताद्वा-ध्यानविशेषादार्तिचित्ता इति, 'अट्टणियट्टियचित्त' त्ति पाठान्तरं तत्र आर्तेन नितरामर्दितम्-अनुगतं चित्तं येषां ते तथा, 'अदुहट्टियचित्ते' त्ति वा आर्तेन दुःखार्दितं चित्तं येषां ते तथा ।
मू. (४०) जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुविति, तमेव धम्मं दुविहं आइक्खड़, तंजहा - अगारधम्मं अनगारधम्मं च ।
अनगारधम्मो ताव इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगारातो अनगारियं पव्वयइ सव्वाओ पाणाइवायाओ वेरमणं मुसावाय० अदिन्नादाण० मेहुण० परिग्गह० राईभोयणाउ वेरमणं अयमाउसो ! अनगारसामइए धम्मे पन्नत्ते ।
एअस्स धम्मस्स सिक्खाए उबठ्ठिए निग्गंथे वा निग्गंधी वा विहरमाणे आणाए आराहए भवति ।
वृ. वाचनान्तरे गाथाः क्रमान्तरेणाधीयन्ते, तदन्ते च ' एवं खलु जीवा निस्सीले' त्याद्यधीयते, तत्र शीलं - महाव्रतरूपं समाधानमात्रं वा 'निव्वय'त्ति व्रतानि - अनुव्रतानि 'निग्गुण 'त्ति गुणा - गुणव्रतानि 'निम्मेर'त्ति निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवसथा 'निप्पञ्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं - पौरुष्यादि पौषधः - अष्टम्यादिपर्वदिनं तत्रोपवसनं पौषधोपवासः, 'अक्कोह' त्ति क्रोधोदयाभावात् 'निक्कहा' उदयप्राप्तक्रधस्य विफलताकरणात्, अत एव 'छीनक्कहा' क्षपितक्रोधाः एवं मानाद्यभिलापका अपि 'अनुपुव्वेणं' अनमिच्छमीसम्म मित्यादिना क्रमेण । अथाधिकृत वाचना - 'इह खलु' इहैव मर्त्यलोके 'सव्वओ सव्वत्ताए' त्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थ, सर्वात्मना – सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एते च मुण्डो भूत्वेत्यस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org