________________
मूलं -२७
वृ. 'तए णं 'ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थः - सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटकं - सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थ त्रिकं यत्र स्थाने रथ्यात्रयमीलको भवति चतुष्कं यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं यत्र बहवो मार्गा मिलन्ति चतुर्मुखंतथाविधदेवकुलादि महापथोराजमार्ग पन्था - रथ्यामात्रं 'महयाजनसद्दे इ वा' महान् जनशब्दः - परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थोवाशब्दः पदान्तरापेक्षया समुच्चयार्थ, अथवा 'सद्देइव' त्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, कचित् 'बहुजनसद्दे इ वत्ति पाठो व्यक्तश्च यत्र च जनव्यूह इति वा - लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थ, एवं सर्वत्र, काचित्पठ्यते
-
१२७
'जनवाए इ वा जनुल्लावे इ वा' इति तत्र जनवादी - जनानां परस्परेण वस्तुविचारणं उल्लापस्तु तेषामेव काका वर्णनम्, आह च
119 11
“स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः । काकवा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥"
एवं बोलः - अव्यक्तवर्णो ध्वनि, कलकलः- स एवोपलभ्यमानवर्णविभागः, ऊर्मिः-सम्बाधः उत्कलिका - लघुतरः समुदाय एव सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, 'एव' मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ' त्ति, आख्याति सामान्येन 'भासइ' त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह - 'प्रज्ञापयति प्ररूपयति चे 'ति ।
अथवा आख्याति - सामान्यतः भाषते - विशेषतः प्रज्ञापयति - व्यक्तपर्यायवचनतः प्ररूपयत - उपपत्तितः 'इह आगए 'त्ति चम्पायाम् 'इह संपत्ते' त्ति पूर्णभद्रे 'इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह - 'इह चंपाए' इत्यादि 'अहापडिरूवं 'ति यथाप्रतिरूपम उचितमित्यर्थ
भू. (२७-वर्तते तं महम्फलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोअस्सवि सवणताए, किमंगपुण अभिगमणवंदननमंसणपडिपुच्छणपज्जुवासणयाए ?, एक्कस्सवि आयरिय- स्स धम्मिअस्स सुवयणस्स सवणताएं ?, किमंगपुण विउलस्स अत्थस्स गहणयाए ?
Jain Education International
तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सक्करेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइअं पज्जुवासामो एतं णे पेच्चभवे इहभवे अहियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्टु बहवे उग्गा उग्गपुता भोगा भोगपुत्ता।
बृ. 'तं महफलं 'ति यस्मादेवं तस्मान्महद् - विशिष्टं फलम् - अर्थो भवतीति गम्यं, 'तहारूवाणं'त तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थ, 'नामगोयस्सवि' त्ति नाम्नो-याच्छिकाभिधानस्य गोत्रस्य - गुणनिष्पन्नाभिधानस्य 'सवणयाए' त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण' ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थ, अङ्गेत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ, 'अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए' त्ति अभिगमनम् अभिमुखगमनं वन्दनं स्तुति नमस्यनं प्रणमनं प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः पर्युपासनं - सेवा एतेषां भावस्तत्ता तया ।
तथा 'एगस्सवि' त्ति एकस्यापि 'आरियस्स' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स' त्ति
For Private & Personal Use Only
www.jainelibrary.org