________________
१२६
तेजस्तेभ्योऽधिकतरः सन्निकाशो- दीप्तिर्यासां तास्तथा, 'सिंगारागारचारुवेसाओ' शृङ्गारोरसविशेषस्तत्प्रधान आकारः - आकृतिश्चारुश्च वेषो नेपथ्यं यासां तास्तता, अथवा शृङ्गारस्यागारमिव-गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसिय भणियचेडियविलाससललियसंलावनिउणजुत्तोवयार कुसलाओ' सङ्गतानि - उचितानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं गमनं हसितं -हासः भणितं वचनं चेष्टितं - चेष्टा विलासो-नेत्रविकार:, यदाह
119 || "हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥
सललितः - समाधुर्य संलापः - परस्परभाषणम्, आह च - "संलापो भाषणं मिथः " अथवा ललितेन सह यः संलापः स तथा, ललितलक्षमं चेदम्
॥१॥
-
औपपातिकउपाङ्गसूत्रम्-२६
"हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्ठप्रयोजितः । सौन्दर्यं कामिनीनां यल्ललितं तत्प्रकीर्तितम् ॥”
उपचारः- पूजा, 'सुन्दरस्तनजघनदनकरचरमनयनलावण्यरूपयौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास वंलक्षणो ग्राह्यो, यदुक्तम्"स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव ।
119 11
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥
इति, श्लिष्ट इति सुलिष्टः 'सुरवधुओ' त्ति विशेष्यपदं, 'सिरीसनवनीयमउयसुकुमालतुल्लफासाओ' शिरीषं - शिरीषाभिधानतरुकुसुमं नवनीतं च--प्रक्षणं ते च ते मृदुकसुकुमारे चअत्यन्तसुकुमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शो यासां तास्तथा, 'ववगयकलिकलुसधोयनिद्धंतरयमलाओ' व्यपगते कलिकलुषे-राटीपापकर्मणी यासां तास्तथा धीतौप्रक्षालितौ निर्माती दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौतनिर्ध्याताविव धौतनिर्माती रजोमलौ यासां तास्तथा, ततः कर्मधारयः ।
'सोमाउ' त्ति सोम्या-नीरुजः 'कंताओ' त्ति काम्याः 'पियदंसणाओ' त्ति सुभगाः, सुरूपा इति व्यक्तं, 'जिनभत्तिदंसणाणुरागेण हरिसायाओ' त्ति जिनं प्रति भक्त्या कृत्वा यो दर्शनानुरागोदर्शनेच्छी स तथा तेन हर्षिताः सञ्जातरोमाञ्चादिहर्षकायाः, 'ओवइया यावित्ति अवपतिताश्चाप्यवतीर्णा, 'जिनसगासं' ति जिनसमीपे, 'दिव्वेण' मित्यादि देववर्णकवन्त्रेयं, नवरं 'ठियाओ चेव'त्ति ऊर्ध्वस्थानस्थिता इति ॥
मू. (२७) तए णं चंपाए नयरीए सिंघाडगतिगचउकचच्चरचउम्मुहमहापहपहेसु महया जनसद्दे इ वा जनवूहे इ वा जनबोले इ वा जनकलकले इ वा जनुम्मी ति वा जनुक्कलिया इवा जनसनिवाए इ वा बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परुवेइ ।
एवं खलु देवाणुप्पि ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाचिउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए नयरीए बाहिं पुन्भद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org