________________
१९१
मूलं-७१
अन्ये पुनरिमां गाथामेवं व्याख्यान्ति-सिद्धसुखपर्यायराशिः नभःप्रदेशाग्रगुणितनभःप्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां, सर्वाद्धापिण्डितः-सर्वसमयसम्बन्धी सङ्कलितःसन्, सचानन्तैः अनन्तशोइत्यर्थः, वर्ग:-वर्गमूलै क्तः अपवर्तितः अत्यन्तं लधूकृत इत्यर्थः,
यथाकिल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टः सहमणि पञ्चशतानिषट्त्रिंशन्चेति (६५५३६),सच वर्गेणापवर्तितः सन् जाते द्वे शतेषट्पञ्चारादधिके (२५६) सोऽपि स्ववर्गापवर्तितोजाताःषोडशततश्चत्वारःततोद्वावित्येवमतिलघूकृतोऽपिसर्वाकाशेनमायाद्, एतदेवाह'सव्वागासे न माएजत्ति
अथ सिद्धसुखस्यानुपमतांधष्टान्तेनाह-'जह गाहा, पूर्वार्धं व्यक्तं, 'नचएइ तिन शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः,कुत इत्याह-उपमायां त्वत्र नगरुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्
म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः ।
अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥ ॥२॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम्।
प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥ ॥३॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् ।
विशिष्टभोगभूतीनां, भाजनं जनपूजितः॥ ॥४॥ ततः प्रासादश्रृङ्गेषु, रम्येषु काननेषु च।
वृतो विलासिनीसार्थे ते भोगसुखान्यसौ॥ . ॥५॥ अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् ।
व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स, मनोहरम् ।।
जातोत्कण्ठो दढं जातोऽरण्यवासगमं प्रति।
विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः। ॥७॥
पृच्छन्त्यरण्यवासास्तं, नगरंतात ! कीदृशम् ? ।
स स्वभावान् पुरः सर्वान, जानात्येव हि केवलम्॥ ॥८॥ नशशाक तकां तेषां, गदितुंस कृतोद्यमः ।
वने वने चराणां हि, नास्ति सिद्धोपमा यतः (तथा)। मू.(७२) इय सिद्धाणं सोक्खं अनोवमनस्थितस्स ओवम्म ।
किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं। वृ.अथ दार्टान्तिकमाह-'इय' गाहा, 'इति एवम्-अरण्ये नगरगुणाइवेत्यर्थः, सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह- 'एत्तो'त्तिआर्षत्वादस्य-सिद्धिसुखस्य इतोवाऽनन्तरम् औपम्यम्-उपमानम् 'इदं वक्ष्यमाणं श्रृणुत वक्ष्ये इति॥ . मू. (७३) जह सव्वकामगुणिय पुरिसो भोत्तूण भोयणं कोई।
तण्हाछुहाविमुक्को अच्छेज्जा जहा अमियतित्तो।। वृ.'जह' गाहा 'यथे'त्युदाहरणोपन्यासार्थः सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेषं व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तया औत्सुक्यनिवृत्त्या सुखप्रदर्शनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org