________________
१९०
औपपातिकउपाङ्गसूत्रम्-६८ मू. (६९) जं देवाणं सोक्खं सब्बद्धापिंडियं अनंतगुणं।
___ न य पावइ मुत्तिसुहं नंताहिं वग्गवग्गूहिं।। वृ. कस्मादेवमित्याह-'जं देवाणं गाहा, 'यो यस्माद्देवानाम्-अनुत्तरसुरानन्तानां 'सौख्यं त्रिकालिकसुखंसद्धिया अतीतानागतवर्तमानकालेन पिण्डितं-गुणितसर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणइनानन्तंभवति, नचप्राप्नोतिमुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवगैर्वर्गितमपि, तत्र तद्गुणो वर्गो यथाद्वयोर्गर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथाषोडश एवमनन्तशोवर्गितमपि।चूर्णिकारस्त्वाह-अनन्तैरपिवर्गवर्गः-खण्डखण्डैः खण्डितं सिदअधसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् ॥ मू. (७०) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हवेजा।
सोऽनंतवग्गभइओ सब्वगासे न माएजा ।। वृ.सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह-सिद्धस्स गाहा, सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः सुखानांसको राशिः' समूहःसुखसङ्घातः इत्यर्थः, सर्वाद्धापिण्डितः सर्वकालसमयगुणितो यदिभवेद्, अनेनचास्य कल्पनामात्रतामाह-,सोऽनन्तवर्गभक्तो अनन्तवर्गापवर्तितः सन्समीभूत एवेतिभावार्थः, सर्वाकाशे'लोकालोकरूपेनमायात्, अयमत्र भावार्थः-इह किल विशिष्टाहादरूपं सुखं हगृह्यते,
ततश्च यत आरभ्यशिष्टानांसुखशब्दप्रवृत्तिस्तमाहादमवधीकृत्यएकैकगुणवृद्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्धया निरतिशयनिष्ठांन गतः, ततश्चासावत्यन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूपःस्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माचाराप्रथमाचोर्ध्वमपान्तरालवर्तिनो ये तारतम्येनाहादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं-सव्वागासे न माएजत्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति॥ मू. (७१) जह नाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो।
नचएइ परिकहेउं उवमाए तहिं असंतीए। वृ. अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:-य एते सुखभेदास्ते सिद्धसुखपर्यायतयाव्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थान-वर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहन समयराशिस्तु शतं, सहस्रं च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनारअर्थ, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहममेव, अतः पूज्यैरुक्तं 'समीभूत एवेति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः-यत्र किलानन्तराशिना गुणितेऽपरिसतिअनन्तवर्गेणानन्तानन्तकरूपेणातीवमहास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिमहानिति बुद्धिजननार्थं शिष्यस्यतस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org