________________
मूलं - ६३
१८९
मू. (६३)
ओगाहणाए सिद्धा भवत्तिभागेण होइ परिहीणा ।
संठाणमनित्थंथं जरामरणविप्पमुक्काणं ॥
बृ. 'ओगाहणाए' गाहा व्यक्ता, नवरन् 'अनित्थंथं' ति अमुंप्रकारमापन्नमित्यं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति ॥
मू. (६४)
जत्थ य एगो सिद्धी ततत्थ अनंता भवक्खयविमुक्का | अन्नोन्नसमवगाढा पुट्ठा सव्वे य लोगंते ॥
वृ. अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह - ' जत्थ य' गाहा, यत्र च - यत्रैव देशे एकः सिद्धो - निर्वृत्तस्तत्र देशे अनन्ता किम् ? - 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्चेदमाह । अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति ॥
मू. (६५) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा । तेवि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा ।।
वृ. तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः 'नियमसो'त्ति नियमेन सिद्ध:, तथा तेऽप्यमसङ्केययगुणा वर्तन्ते देशैः प्रदेशैश्च ये स्पृष्टाः, केभ्यः ?, - सर्वप्रदेशस्पृष्टेभ्यः, कथम् ? - सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाह नायामनन्तानामवगाढत्वात्, तथैकैकदेशेनाप्यनन्ता एवमेकैकप्रदेशेनाप्यनन्ता एव, नवरंदेशो-द्वयादिप्रदेशसमुदायः, प्रदेशस्तु - निर्विभागोऽशं इति, सिद्धश्चासङ्घयेयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्घयेयैर्देशानन्तकैरसङ्घयैरेव च प्रदेशान्तकैर्गुणितं वयोक्तमेव भवतीति ।
पू. (६६)
असरीरा जीवघेणा उवउत्ता दंसणे य नाणे य ।
सागारमनागारं लक्खणमेयं तु सिद्धाणं ।।
बृ. अथ सिद्धानेव लक्षणत आह- 'असरीरा' गाहा, उक्तार्था, सङ्ग्रहरूपत्वाच्चास्या न पुनरुक्तत्वामिति ॥ मू. (६७)
केवलनाणुवउत्ता जाणंति सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठी अनंताहिं ॥
बृ. 'उवउत्ता दंसणे य नाणे य'त्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-‘केवल’गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तः करणोपयुक्ताः, भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणाः- सहवर्तिनः पर्यायास्तु क्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत एवेत्यर्थः केवलदष्टिभिरन-ताभिःकेवलदर्शनैरनन्तैरित्यर्थः स अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनयस्य केवलष्टिमिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ।। मू. (६८) नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं ।
जं सिद्धाणं सोकखं अव्वाबाहं उवगयाणं ||
वृ. अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह- 'नवि अस्थि' गाहा व्यक्ता, नवरम् 'अव्वाबाहं’ति विविधा आबाधा व्याबाधा तन्निषेधादबव्याबाधा तामुपगतानां प्राप्तानामिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org