________________
औपपातिकउपाङ्गसूत्रम्-५७
वृ. अलोके - अलोकाकाशास्तिकाये प्रतिहताः - स्खलिताः सिद्धा - मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रे च पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिताअपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह मनुष्यक्षेत्रे बोन्दि-तनुं परित्यज्य तत्रेति - लोकाग्रे गत्वा सिज्झईत्ति - सिध्यन्ति निष्ठितार्था भवन्ति ।।
यू. (५८)
१८८
जं ठाणं तु इहं भवं चयं तस्स चरिमसमयंमि । आसी य पएसघणं तं संठाणं तहिं तस्स ॥
वृ. किञ्च- 'जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्ररपूरणादिति, 'तहिं' ति सिद्धिक्षेत्रे 'तस्स' ति सिद्धस्येति ॥
यू. (५९)
वीहं वा हसं वा जं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया ।।
वृ. तथा चाह - 'दीहं वा' गाहा, दीर्घ वा - पञ्चधनुः शतमानं हस्वं वा - हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः ' तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिकपूरणात् सिद्धानामवगाहना - अवगाहन्ते - अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति ॥
यू. (६०)
मू. (६१)
तिन्नि सया तेत्तीसा धणूत्तिभागो य होइ बोद्धव्वा । एसा खलु सिदअघाणं, उक्कोसोगाहणा भणिया || चत्तारि य रयणीओ रयणित्तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिया ।। एक्का य होइ रयणी साहीया अंगुलाई अट्ठ भवे । एसा खलु सिद्धाणं जहन्नओगाहणा भणिया ।।
मू. (६२)
वृ. अथावगाहनामेवोत्कृष्टादिभेदत आह- 'तिन्नि सये 'त्यादि, इयं च पञ्चधनुः शतमानानां, 'चत्तारि ये' त्यादि तु सप्तहस्तानाम् 'एगा ये' त्यादि द्विहस्तमानानामिति ।
इयं च त्रिविधाऽप्य॒र्ध्वमानमानश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्धयतामन्यथाऽपि स्यादिति ।
आक्षेपपरिहारी पुनरेवमन्त्र- ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुः शतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी तव्यमाणैव, 'उच्चत्तं चैव कुलगरेहिं सम' मिति वचनात्, अतस्तदवगाहना उत्कृष्टाव गहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः ?, अत्रोच्यते, अद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुः शतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति ?,
अत्रोच्यते, सप्तहस्तोच्छ्रितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहुः - सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org