________________
मूलं-५५
१८७ नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा ईषत्-अल्पापृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'लोयग्गपडिबुझणाइवत्ति लोकाग्रमिति प्रतिबुध्यते-अवसीयते या लोकाग्रेवाप्रतिबुध्यते ययासातथा, सव्वपाणभूयजीवसत्तसुहावह'त्तिइहप्राणा-द्वीन्द्रियादयः भूता-वनस्पतयःजीवाः-पञ्चेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषांच पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति, 'सेय'ति श्वेता, एतदेवाह
'आयंसतलविमलसोल्लियमुणालदगरयतुसारगोक्खीरहारवण्ण'त्ति व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलंकवचच्छङ्गतलमितिपाठः, आदर्शतलमिव विमलायासातथा, 'सोल्लिय'त्ति कुसुमविशेषः, सव्वअणसुवण्णमई ततिअर्जुनसुवर्ण-श्वेतकाञ्चनं अच्छाआकाशस्फटिकमिव 'सण्ह'त्तिश्लक्ष्णपरमाणुस्कन्धनिष्परन्नांश्लक्ष्णतन्तुनिष्पन्नपटवत् 'लण्ह'त्तिमसृणाघुण्टितपटवत्, 'घट्ट'त्तिघृष्ठेवघृष्ठाखरशानया पाषाणप्रतिमावत्, ‘मट्ठत्तिमृष्टेव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमानिकयेव,
अत एव 'नीरय'त्ति नीरजाः-रजोरहिता 'निम्मला' कठिनमलरहिता 'निप्पंक'त्ति निष्पका-आर्द्रमलरहिताअकलकावा 'निक्कंकडच्छाय'ति निष्काटा-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, 'समरीचिय'त्ति समरीचिका-किरणयुक्ता, अत एव ‘सुप्पभ'त्ति सुष्ठु प्रकर्षेण च भाति-शोभते या सा सुप्रभेति पासादीय'त्ति प्रासादोमनःप्रमोदः प्रयोजनं यस्याः साप्रासादीया दरसणिज्जत्ति दर्शनाय-चक्षुव्यापाराय हितादर्शनीया, तांपश्यच्चक्षुर्नश्राम्यतीत्यर्थः, अभिरूव'त्ति अभिमतं रूपं यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा, 'जोयणमि लोगते'त्ति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषङ्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनुःशतत्रयीप्रमाणत्वादिति, 'अनेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्रस तथा तं
'संसारकलंकलीभावपुनब्मवगब्भवासवसहीपवंचमइकता' संसारे कलङ्क लीभवेनअसमञ्जसत्वेन ये पुनर्भवाः-पौनःपुन्येनोत्पादा गर्भवासवसतयश्च-गर्भाश्रयनिवासा-स्तासांयः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्तरमिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकली भावपुणब्भवगब्मवासवसहिपवंचसमइक्कंत'त्तिअनेकजाति-जरामरणप्रधाना योनयोयत्रसतथा सचासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यःपुनर्भवेन-पुनःपुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता येते तथा ।।। मू. (५६) कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिट्ठिया? ।
कहिं बोदिं चइत्ताणं, कत्थ गंतूण सिज्झई?॥ वृ. अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह-'कहि' इत्यादिश्लोकद्वयं, कव प्रतिहताः कवप्रस्खलिताः सिद्धाः-मुक्ताः?, तथाः कवसिद्धाः, प्रतिष्ठिता-व्यवस्थिता इत्यर्थः तथा कवबोन्दि-शरीरं त्यक्त्वा ?, तथा क्वगत्वा सिज्झइत्ति-प्राकृतत्वात् ‘से हु चाइत्ति चुच्चईत्यादिवत् सिध्यन्तीति व्याख्येयमिति मू. (५७) अलोगे पडिहया सिद्धा, लोयग्गे य पडिडिया।
इहं बोदिं चइत्ता णं, तत्थ गंतूणं सिन्झई।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org