________________
१८६
औपपातिकउपाङ्गसूत्रम्-५५
ज्ञानोपयोगवान् 'सिध्यति कृतकृत्यतां लभते इति ।
गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, 'से जे इमे गामागर जाव सन्निवेसेसु मणुयाहवंति - सव्वकामविरया जाव अट्ठ कम्मपयडीओए खवइत्ता उप्पिं लोयग्गपट्ठाणा हवंती' ति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादशास्ते भवन्ति तद्दर्शयितुमाह- 'ते णं तत्थ सिद्धा हवंति 'ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः 'तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, यदुत"रागादिवासनामुक्तं, चित्तमेवनिरामयम् । सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते ॥'
॥१॥
- यच्चापरे मन्यन्ते
119 11
“गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योववत्तापवर्जिताः ॥” -तदनेन निरस्तं यच्चोच्यते - सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत119 11 “अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥”
इति तदपाकरणायाह - 'अशरीरा' अविद्यमानपञ्चप्रकाराशरीराः, तथा 'जीवघन 'ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवधना इति, 'दंसणनाणोवउत्त' ति ज्ञानं साकारं दर्शनम् - अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्ठियट्ठत्ति निष्ठितार्थाःसमाप्तसमस्तप्रयोजनाः 'निरयेण 'त्ति निरेजनाः -- निश्चलाः 'नीरय'त्ति नीरजसो बध्यमानकर्मरहिता नीरया वा - निर्गतौत्सुक्याः 'निम्मल' त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विगताज्ञानाः 'विसुद्ध 'त्ति कर्मविशुद्धप्रकर्षमुपगताः 'सासयमनागयद्धं कालं चिट्ठेति' शाश्वतीम् - अविनश्वरीं सिद्धकत्वस्याविनाशाद्, अनागताद्धा - भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्ती' ति जन्मना - कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा,
जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययघध्रौव्ययुक्तत्वात्सद्भावस्येति, 'जहन्नेणं सत्त रयणीए' त्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत्, 'उक्कोसेणं पंचधणुस्सए 'ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारो न वा मरुदेव्या सातिरेकपञ्चधनुः शतप्रमाणयेति, 'साइरेगट्ठवासाउए 'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुव्वकोडाउए' त्ति पूर्वकोट्यायुर्नरः पूर्वकोट्या अन्ते सिध्यतीति न परतः ।
'ते णं तत्थ सिद्धा भवंती 'ति प्राक्तनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसीयते तथापि मुग्धविनेयस्य कल्पितविधिधझलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह- 'अत्थिण' मित्यादि व्यक्तं, नवरं यदिदं रत्नप्रभा (या) अधस्तदेव लोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं - नायमर्थः समर्थ इति, एवं सर्वत्र, 'से कहिं खाइ णं भंते!' त्ति इत्यत्र सेत्ति - ततः कर्हिति - कवदेशे खाइ णंति- देशभाषया वाक्यालङ्कारे 'बहुसमेत्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अबाहाए' त्ति अबाधया - अन्तरेण 'ईसिंपब्भार' त्ति ईषद् - अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो - महत्त्वं यस्याः सा ईषत्प्राग्भारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org