SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १९२ औपपातिकउपाङ्गसूत्रम्-७३ सकलेन्द्रियार्थावाप्तयाऽशेषौत्सुक्यनिकृत्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भावात् सुखार्थभाव इति ।। मू. (७४) इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ।। वृ. 'इय' माहा, ‘इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदासकलौत्सुक्यनिवृत्तैः, यतश्चैवमतः 'शाश्वतं' 'सर्वकालभावि' 'अव्याबाधं व्याबाधावर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, नतुदुःखाभावमात्रान्विता एवेति॥ मू. (७५) सिद्धत्तिय बुद्धत्तिय पारगयत्ति य परंपरगयत्ति। उम्मुक्तकम्मकवया अजरा अमरा असंगा य॥ वृ. साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह-सिद्धत्ति य'तगाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवंबुद्धाइति केवलज्ञानेनविश्वावबोधात्, पारगत इति च भवार्णवपारगमनात्, परंपरगयत्ति-पुण्यबीजसम्यकत्वज्ञानचरणक्रमप्राप्तयुपाययुक्तत्वात्परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्ततवात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति। मू. (७६) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । ___ अव्वाबाहं सुक्कं अणुहोति सासंयं सिद्धा ।। मू. (७७) अतुलसुहसागरगया अव्वाबाहं अनोवमं पता। सव्वमनागयमद्धं चिट्ठती सुही सुहं पत्ता।। वृ. 'निच्छिन्न'गाहा 'अतुल' गाहा व्यक्तार्थे एवेति। –औपपातिकं पदवर्णनं समाप्तम् - ॥१॥ चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः । कुसुमोपमस्य सूरेः गुणसौरमभरितभवनस्य । ॥२॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्वस्य । शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः ।। ॥३॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन। पण्डितगुणेन गुणवत्रियेण संशोधिता चेयम् ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता औपपातिकउपासूत्रस्य अभयदेवसूरि विरचिता-द्रोणाचार्यशोधिता टीका परिसमाप्ता। | १२ प्रथमम् उपाङ्गम् औपपातिकं समाप्तम् । *** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy