________________
१७४
औपपातिकउपाङ्गसूत्रम्-५० त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा,
-आह च व्यवहारभाष्ये–'सोत्ताइं नव सुत्ताई' इत्यादि, 'हयजोही'त्ति हयेन-अश्वेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधीच, 'बाहुप्रमर्दी'ति बाहुभ्यांप्रमृनातीति बाहुप्रमर्दी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे ति अत्यर्थं भोगानुभवनसमर्थः, 'नो सञ्जिहिति' त्ति न सङ्ग-सम्बन्धंकरिष्यति नो रजिहिति'त्तिनराग-प्रेमभोगसम्बन्धहेतुंकरिष्यति नोगज्झिहिति'त्ति नाप्राप्तभोगेष्वाकाङ्क्षाकरिष्यतीति ‘नोअज्झोववञ्जिहिति'त्तिनाध्युपपत्स्यते नात्यन्तंतदेकाग्रमना भविष्यतति
'सेजहानामए'त्तिसेइति अथशब्दार्थेअथशब्दश्च वाक्योपक्षेपार्थः, नामेतिसम्भावनायाम, एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चारर्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीकं-सितपद्मं 'पंकरएणं'ति पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणंति कामः-शब्दो रूपं च स एव रजः कामरजस्तेन 'भोगरएणं ति भोगो-गन्धो रसः स्पर्शश्च 'मित्तनाइनियगसयणसंबंधिपरिजणेणं'ति मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातृपुत्रादयः स्वजनामातुलादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिपरिकरः केवलं बोहिं बुजिहिइत्ति विशुद्धं सम्यग्दर्शनमनुभविष्यति तल्लप्स्यत इत्यर्थः,
'अनंते त्यादि, अनन्तम्'-अनन्तार्थविषयत्वात् 'अनुत्तरं' सर्वोत्तमत्वात् ‘निर्व्याघातं' कटकुट्यादिभिरप्रतिहतत्वात् 'निरावरणं' क्षायिकत्वात् ‘कृत्स्नं' सकलार्थग्राहकत्वात् 'प्रतिपूर्ण सकलस्वांशसमन्वितत्वात् 'केवलवरणनणदंसणे त्ति केवलम्-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञान-विशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति, 'हीलणाओ'त्तिजन्मकर्ममर्मोद्घट्टनानि 'निंदणाओ'तिमनसा कुत्सनानि खिसणाओ'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्येव च गर्हणीयसमक्षाणि 'तज्जणाओ'त्ति शिरोऽगुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि 'तालणाओ'त्ति ताडनाः-चपेटादिदानानि परिभवणाओ'त्ति आभाव्यार्थपरिरेण न्यकिक्रयाः, _ 'पव्वहणाओ'त्ति प्रव्यथना-भयोत्पादनानि 'उच्चावय'त्ति उत्कृष्टेतराः ‘गामकंटय'त्ति इन्द्रियग्रामप्रतिकूला इति सिज्झिहिइत्ति सेत्स्यति-कृतकृत्योभविष्यति बुझिहिइति भोत्स्यतेसमस्तान केवलज्ञानेन 'मुच्चिहिइत्तिमोक्ष्यते सकलकर्माशैः परिनिव्वाहिइत्तिपरिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, किमुक्तं भवति ? -'सव्वदुक्खाणमंतं काहिइति व्यक्तमेवेति १४
मू. (५१) से इमे गामागर जाव सन्निवेसेसु पव्वइया समणा भवंति, तंजहाआयरियपडिनीया उवज्झायपडिनीया कुलपडिनीया गणपडिनीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिँ असब्भावुब्भावणाहिँ मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता
-बहूई वासाइं सामण्णपरियागं पाउणंति बहु० तस्स ठाणस्स अनालोइयअपडिक्कता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org