SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मूलं-५० १७३ परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूमिदिकृत्वा नन्नत्थेत्याद्यधीतं, ‘उच्चावएहिंति उच्चावच्चैः-उत्कृष्टानुत्कृष्टैः। ___ 'आउक्खएणं ति आयुःकर्मणो दलिकनिर्जरणेन 'भवक्खएणं'ति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणं ति आयुःकर्मणस्तदन्येषां च केषाचित् स्थितेर्विदलनेनेति 'अनंतरंचयंचइत्तत्ति देवभवसम्बन्धिनंचयं-शरीरंत्यकत्वा-विमुच्य अथवा 'चयं चइत्त'त्तिच्यवनं चित्वा-कृत्वेत्यर्थः, 'अड्वाइंति परिपूर्णानि 'दित्ताईति दप्तानि-दर्पवन्ति 'वित्ताइंति वित्तानि व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसुत्ति इह क्वचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः, 'पञ्चायाहिति'त्ति प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः, 'ठिइवडियं काहिति'त्ति स्थितिपतितंकुलकमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'चंदसूरदंसणिय'ति चन्द्रसूरदरनिकाभिधानं सुतजन्मोत्सवविशेषं 'जागरिय'ति रात्रिजागरिकांसुतजन्मोत्सवविशेषमेव 'निव्वत्तेअसुरइजायकम्मकरणे त्तिनिवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतांजातकर्मणां-प्रवव्यापाराणां यत्करणं-विधानंतत्तथा, तत्र ‘बारसाहे दिवसेति द्वादशाख्ये दिवसे इत्यर्थः,अथवा द्वादशानामांसमाहारोद्वादशाहतस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरो'त्ति अम्बापितरौ 'इमति इदं वक्ष्यमाणम्, अयमिति क्वचिद्दश्यते, तच्च प्राकृतशैलीवशात्, “एयारूवंति एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्येतद्रूपं गोणं'ति गौणं, किमुक्तं भवतीत्याह __'गुणनिष्फन्नति गौणशब्दोऽप्रधानेऽपिवर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नामधेचं' ति प्रशस्तं नामैव नामधेयम्, इह स्थाने पुस्तकान्तरे 'पंचधाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, सच प्राग्वद् व्याख्येयः, किञ्चिच तस्य व्याख्यायते-'हत्था हत्यं संहरिज्जमाणे त्तिहस्ताद्धस्तान्तरं संहियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनच्चिज्जमाणे'त्ति उपनत्यमानो नर्तनं कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषैर्गीयमानो गाप्यमानो वा उवलालिजमाणे'त्ति उपलाल्यमानः क्रीडादिलालनया ‘उवगूहिज्जमाणे'त्ति उपगूह्यमानः आलिङ्गयमानः 'अवयासिज्जमाणे'त्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकाननिर्दयालिङ्गनेनापीड्यमानः, अप्रयास्यमानोवा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदिज्जमाणे'त्ति परिवन्धमानःस्तूयमानः, परिचुम्ब्यमानइति व्यक्तं, परंगिजमाणे त्ति परणयमाणः चङ्कम्यमाणः, एतेषां च संहियामाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निव्वाघायं'ति निर्वातंनियाघातंच यद्गिरिकन्दरंतदालीन इति।अथाधिकृतवाचना 'साइरेगठवरिसजायगं'ति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्थउ'त्ति अर्थतो व्याख्यानतः 'करणओ यति करणतः प्रयोगत इत्यर्थः । ___'सेहावेहिति'त्ति सेघयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यति अभ्यास कारयिष्यति विनयपरिणयमेत्ते'त्ति कवचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणममात्रश्चबुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्धयादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy