________________
४१०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५
सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कटं-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंत'त्तिइच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंधाः-पदातिरूपचौरसमूहाः, तथा सेनापतयः, किंस्वरूपाः ?-चौरवृन्दप्रकर्षकाश्चतप्रवर्तका इत्यतः, अटवीदेशे यानि दुर्गाणिजलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतियावत् अनेकशतसङ्ख्याश्चिह्नपट्टा बद्धा यैस्ते तता परविषयानभिनन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये- धनकृते इत्यर्थः, तथा रत्नाकरभूतोयः सागरःसतधातंचातिपत्याभिनन्तिजनस्यपोतानिति सम्बन्धः,
उर्मयोवीचयस्तत्सहस्राणांमालाः-पङ्कतयस्तभिराकुलोयः सतथा, आकुला-जलाभावेन व्याकुलितचित्तायेवितोयपोताः-विगतजलयानपात्राः सांयात्रिकाः ‘कलकलित'त्ति कलकलायमानाः--कोलाहलबोलं कुर्वाणास्तैःकलितो यः स तथा, अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहनमालाभिः आकुलाकुलः-अतिव्याकुलो यः स तथा, तथा वियोगपोतैः-विगतसम्बन्धनबोधिस्थैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाःपातालकलशास्तेषां यानि सहासणि तैतिशाद्वेगेन यत्सलिलं-जलधिजलं 'उद्धममाणं'ति य उत्पाचट्यमानं तस्य यदुदकरजः-तोयरेणुस्तदेव रजोऽनधकारं-धूलीतमो यत्र स तथा तं,
वरः फेनो-डिण्डीरःप्रचुरोधवलः 'पुलंपुल तिअनवरतंयः समुत्थितो-जातः स एवाट्टहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र सतथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र सतथा, जलमालानांजलकल्लोलानामुत्पीलः-समूहो हुलिय'त्तिशीघ्रो यत्र सतथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः-सर्वचः क्षुभितं-वायुप्रभृतिभिव्याकुलितं लुलितं-तीरभुविलुठितं 'खोखुब्भमाण'त्ति महामत्स्यादिभिभृशं व्याकुलीक्रियमाणंप्रस्खलितंनिर्गच्छत्पर्वतादिना स्खलितं चलितं-स्वस्थानगमनप्रवृत्तं विपुलं-विस्तीर्णं जलचक्रवालंतोयमण्डलं यत्र स तथा, महानदीवेगैः-गङ्गानिन्मागाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यःस तथा गम्भीरा-अलब्धमध्याः विपुला-विस्तीर्णाश्च ये आवर्ता-जलभ्रमणस्थानरूपाः तेषु चपलंयथा भवतीत्येवं भ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति-उत्पतन्ति उच्चलन्ति वा-ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्तानामिति,
तथा प्रधाविताः-वेगितगतयः खरपरुषाः-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिला:-विलोलितजलाः स्फुटन्तो-विदीर्यमाणाये वीचिरूपाः कल्लोलान तुवायुरूपास्तैः सङ्गुलो यः सतथा ततः कर्मधारयोऽतस्तं, तथामहामकरमत्यस्यकच्छपाश्च ओहार'त्तिजलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्चश्वापदाश्चेति द्वन्द्वस्तेषां समाहताश्च-परस्परेणोपहताः ‘समुद्धायमाणक'त्ति उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तो ये पूराः-सङ्घाः घोरा-रौद्रास्ते प्रचुरायत्रस तथा तं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं--रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकानि 'अनोरपारं'ति अनक्यिपारमिव महत्त्वादनर्वाक्पारंआकाशमिव निरालम्बं, न हि तत्र पतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः,
औत्पातिकपवनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थं ये 'नोल्लिय'त्ति नोदिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org