SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४०३ द्वार-१, अध्ययनं-३, च-प्रतारणं आक्षेपणंच-चित्तव्यग्रतापादनंघातनंच-मारणमिति द्वन्द्वः ततएतत्परः-एतनिष्ठः अनिभृतः-अनुपशनान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकंच-नित्यं छिद्रविषयमयोः सम्पबन्धीदं पापमित्यर्थ, अन्यदा हि तत्पापंप्रकर्तुमशक्यमिति भावः, अनिभृतपरिणाम सङ्किलष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं पिर्यजनमित्रजनानां भेदं-वियोजनं विप्रीतिंच-विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च-पुनरपि 'उप्पूर'त्ति उत्पूरेण-प्राचुर्येण समरो-जनमरकयुक्तो यः सङ्ग्रामो-रणः स उत्पूरसमरसङ्गङ्ग्रामः स च डमरः-विड्वरः कलिकलहश्च-राटीकलहो न तु रतिकलहः वेधश्च-अनुशयः एतेषां करणं-कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनप्रतीतं भवे-संसारे पुनर्भवान्– पुनःपुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं-अ व्यवच्छिन्नतयाऽनुवृत्तं दुरन्तं-दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्मद्वारं-पापोपाय इति तदियता यावेश इत्युक्तं, अथ यन्नामेत्यभिषातुमाहमू. (१४) तस्स य नामाणि गोत्राणि होति तीसं, तंजहा-चोरिकं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधणंमि गेही लोलिक्कं ८ तक्करतणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पावकग्मकरणं १२ तेणिक्कं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पचओ १७ अवीलो १८ अक्खेवो १९ खेवो २० चिक्खेवो २१ कूडया २२ कुलमसी य२३ कंखा २४ लालप्पणपत्थणाय २५आससणाय वसणं २६इच्छामुच्छा य२७ तण्हागेहि २८ नियडिकम्मं२९ अपरच्छंतिविय ३० तस्स एयाणिएवमादीणि नामधेजाणि होति तीसं अदित्रादाणस्स पावकलिकलुसकम्मबहुलस्स अनेगा। वृ. 'तस्से'त्यादि सुगम, तद्यथे'त्युपदर्शनार्थः, 'चोरिकं तिचोरणंचोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्ध तं परहतं २ अदत्तं-अवितीर्णं ३ 'कूरिकडं ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्तिते क्रुरिणस्तैः कृतंअनुष्टितंयत्तत्तथा, क्वचित्तु कुरुटककृतमितिदृश्यतेतत्र कुरुटुकाःकाङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभः-परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७ 'लोलिकत्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० हत्थलत्तणति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२ 'तेणिक्क'न्ति स्तेनिका स्तेयं १३ हरणेन-मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ 'आइयण'त्ति आदानं परधनस्येति गम्यते १५, लोपना-अवच्छेदनं धनानां-द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रुव्यस्येति गम्यते १९क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता-तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काङ्क्षपरद्रव्येइति गम्यते २४ 'लालप्पणपत्थणाय'त्तिलालपनस्य-गर्हितलापस्य प्रार्थनेवप्रार्थना लालपनप्रार्थना, चौर्य हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्वेवस तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात् Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy