________________
४०२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/१२
अतिकठोरेण वचनेन यत्तर्जन-रे दास ! पुरुषेण भवितव्यमित्यादि निर्भत्सनं-अरे ! दुष्टकर्मकारिनपसर दृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'विमणति विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निर्वृति-मनःस्वास्थ्य उपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः।।
तदियताऽलीकस्य फलमुक्तं, एसो' इत्यादिना त्वधिकृतद्वारनिगमनं इति, व्याख्या त्वस्य प्रथमाध्ययनपञ्चमद्वारनिगमनवत्, ‘एयं तं बितियंपी'त्यादिनाऽध्ययननिगमनं, अस्य त्वधिकृताध्ययनंप्रथमद्वारवद् व्याख्यानं, परं एतत्तद्यप्रागुद्दिष्टं द्वितीयमपि अधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति
अधर्मद्वारे - अध्ययनं -- २ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
___- अध्ययनं-३-अदत्तादान :वृ. व्याख्यातं द्वितीयमध्ययनं, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकस्वरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानस्वरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्--
म.(१३)जंबू! तइयंच अदत्तादानंहरदहमरणभयकलुसतासणपरसंतिगऽभेजलोभमूलं कालविसमसंसियंअहोऽच्छिन्तण्हपत्थाणपत्थोइमइयंअकित्तिकरणंअणजंछिद्दमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणविखवणघायणपराणिहुयपरिणामतकरजणबहुमयंअकलुणं रायपुरिसरक्खियं सया साहुगरहणिजंपियजणमित्तजणभेदव्पिपीतिकारकं रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं ।
वृ. 'जम्बू!' इत्यादि, यथापूर्वाध्ययनयोः याशियन्नामादिभिः पश्ची रद्वारैरेध्यनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादशमदत्तादानं स्वरूपेण तप्रतिपादयंस्तावदाह-हे जम्बू ! तृतीयं पुनरनावद्वाराणां, किं ?-- अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदाहयोः परप्रवर्तनार्थी शब्दौ दहनहरणपर्यायौ वा छान्दसाविति तौ च मरणं च-मृत्युः भयं च-भीतिरेता एवकलुषं-पातकंतेन त्रासनं-त्रासननस्वरूपं यत्तत्तथा तच्च तत् तथा परसंतिग'त्ति परसत्केधने योऽभिध्यालोभो-रौद्रध्यानान्वितामूर्छा समूलं-निबन्धनं यस्यादत्तादानस्य तत्तथा तच्चेतिकर्मधारयः, कालश्च-अर्द्धरात्रादि विषमंच-पर्वतादिदुर्गं ते संश्रितं-आश्रितंयत्तत्तथा, ते हि प्रायः तत्कारिभिराश्रीयेते इति,
'अहोऽछिन्नतण्हपत्थाणपत्थोइमइयंति अधः-अधोगतौ अच्छिन्नतृष्णानांअत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका प्रवर्तिका मति:-बुद्धिर्यस्मिंस्तत् तथा, अकीर्तिकरणमनार्यं एते व्यक्ते, तथा छिद्रं-प्रवेशद्वारं अन्तरं-अवसरो विधुरं-अपायो व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं च उत्सवेषु मत्तानां च प्रमत्तानां च प्रसुप्तानां च वञ्चनं
___www.jainelibrary.org
Jain Education International
onal
For Private & Personal Use Only