________________
द्वारं-१, अध्ययनं - २,
अपायकारक परमसाहुगरहणिज्जं परषीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं पुनब्भवकरं चिरपरिचियमणुगयं दुरुत्तं वितियं अधम्मदारं समत्तं त्तिबेमि ॥
बृ. 'तस्से' त्यादि 'तस्स' त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः -- उदयः साध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटां नरकतिर्यग्योनिं तत्रोत्पानमित्यर्थः, तेन चालीकेन तज्जनितकर्मणेत्यर्थः समनुबद्धा: - अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह - जीवलोके, किंभूता इत्याह- दुर्गताः- दुःस्था दुरन्ताः- दुष्पर्यवसानाः परवशाः–अस्वतन्त्राः अर्थभोगपरिवर्जिताः- द्रव्येण भोगैश्च रहिताः 'असुहिय'त्ति असुखिताः अविद्यमान सुहृदो वा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा - विकृतरूपा विवर्णा- विरूपवर्णा इति पदन्नयस्य कर्म्मधारयः तथा स्वरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः - रतिं क्वचिदप्यप्राप्ताः ध्यामाः– अनुज्वलच्छायाः शुषिराः - असारकाया इति पदचतुष्टयस्य कर्म्मधारयः,
निछायाः - विशोभाः - लल्ला - अव्यक्ता विफला-फलासधनी वाग् येषां ते तथा 'असक्कयमसकय'त्ति न विद्यते संस्कृतं संस्कारो येषां ते असंस्कृताः असत्कृताः - अविद्यमानसत्कारास्ततः कर्म्मधारयो मकारश्चालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धाः अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावातदुर्भगाः - अनिष्टाः अकान्ताः - अकमनीयाः काकस्येव खरो येषां ते काकस्वरा हीनो-ह्रस्वो भिन्नश्च - स्फुटितोघोषो येषां ते तथा विहिंस्यन्त इति विहिंसाः जडा-मूर्खाः बहिरान्धकाश्च ये ते तथा पाठान्तरेण जड़बधिरमूकाश्च मन्मनाःअव्यक्तवाचः अकान्तानि - अकमनीयानि विकृतानि च करणानि - इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः - भर्त्तव्या एव, तथा असध्शजनस्य असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्या वा आदेश्याः दुर्मेधसो- दुर्बुद्धयः, 'लोके' त्यादि,
४०१
श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः - लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिःऋक्सामादिवेदशाश्त्रं अध्यात्मश्रुतिः- चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह- नरा - मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन चूअलीकवादजनितकर्माग्निना तेन - कालान्तरकृतेन प्रदह्यमानाः 'असंतएणं 'ति अशान्तकेन - अनुपशान्तेन असता वा- अशोभनेन रागादिप्रवर्त्तितेनत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च-मानहरणं पृष्ठिमांसं च--परोक्षस्य दूषणाविष्करणं अधिक्षेपश्च निन्दाविशेषः पिशुनैः खलैर्भेदनं च- परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवस्वजनमित्राणा सत्कमपक्षारणं च-अशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं-- सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि,
तथा अभ्याख्यानानि-असद्दूषणाभिधानानि बहुविधानानि प्राप्नुवन्ति - लभन्ते इत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य - उरसो मनसश्च चेतसो 'दूमगाई' ति दावकान्युपतापकानि यानि तानि तथा, यावज्जीवं दुरुद्धराणि - आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च
7126
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org