________________
द्वार-१, अध्ययनं-२,
३९५
बन्धभोक्षाधभावप्रसङ्गात्, तथा निष्क्रियः-सर्वव्यापित्वेनावकाशाभावाद्गमनागम-नादिक्रियावर्जितः, असञ्चैतत् देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्, तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूप'मित्यभ्युपगमात्, तथा 'अणुवलेवउति अनुपलेपकः कर्मबन्धरहितः, आह च-“यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्, संसरतिबध्यते मुच्यतेचनानाश्रया प्रकृति"रिति, असञ्चैतत्, मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं-'अन्नोअलेवउत्ति तत्र अन्यश्च-अपरोलेपतः कर्मबन्धनादिति, एतदप्यसत्, कथंचिदितिशब्दानुपादानात्, ‘इत्यपिंच'इतिः-उपप्रदर्शनेअपिचेतिअलीकवादान्तरसमुच्चयार्थः, तथा एवं-वक्ष्यमाणप्रकारेण ‘आहेसुत्ति ब्रुवते स्म असद्भावं-असन्तमर्थं यदुत यदेव-सामान्यतः सर्वमित्यर्थः
इह-शस्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके–मत्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्तः, एतत् 'जइच्छाए वत्तियच्छयावास्वभावेन चापिदैवतप्रभावतोवापि-विधिसामथ्यतोवापि भवति, नपुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदच्छा, पठ्यते च॥१॥ “अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् ।
काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥" (तथा) ॥१॥ “सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रेरपि न स्पृशामः ।
यदच्छया सिद्धयति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ।।"
इति, स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च॥१॥ “कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽसल्ति कुतः प्रयत्लः? ।।"
-इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं॥१॥ "प्राप्तव्यमर्थं लभते मनुष्यः किं कारणं? दैवमलङ्घनीयम् ।
तस्मान्न शोचामि न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥" (तथा) ॥१॥ "द्वीपादन्यस्मादपि मध्यादपि जलनिघेर्दिशोऽप्यन्तात् ।
__ आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ।।"
-इति, असद्भूतता चात्र प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि॥१॥ "कालो सहाव नियई पुवकयंपुरिसकारणेगंता।
मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥" इति, तथा नास्ति-न विद्यतेऽत्र किञ्चिच्छुभमशुभंवा कृतकं-पुरुषकारनिष्पन्नं कृतंच-कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नस्थि किंचिकयंतत्तं तत्रतत्वं-वस्तुस्वरूपमिति, तथा लक्षणानिवस्तुस्वरूपाणि विघाश्च-भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च-स्वभावविशेषश्च कारिका की सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः, अन्ये त्वाहुः-यत् मुद्गादीनां राधिस्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसस्वं न
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only