________________
द्वार-१, अध्ययनं-१,
३८५
पाठान्तरेण 'सपिसल्लय'त्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्याधिभिः-कुष्ठाथै रोगैः-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः--मनःपीडाभिः रोगैश्च पीडिता व्यारोगपीडिताः अल्पायुषः-स्तोकजीविताः शस्त्रेण हन्यन्ते येते शस्त्रवध्याः बाला:-बालिशाः ततोऽनधकारादीनांद्वन्द्वः, कुलक्षणैः-अपलक्षणैरुत्कीर्णः-आकीर्णो देहो येषां तेतथा, दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाःअतिदीर्घा अतिहस्वा वा कुसंस्थिताः-कुसंस्थानाः ततो दुर्बलादीनां द्वन्द्वः,
अतएव कुरूपाः कृपणाश्चरङ्काः अत्यागिनोवा हीनाजात्यादिगुणैर्हीनसत्त्वाः-अल्पसत्त्वाः नित्यं सौख्यपरिवर्जिताः अशुभम् अशुभानुबन्धि यदुःखंतदभागिनः नरकादुद्ध तास्सन्तः इहमनुष्यलोके ॥श्यन्ते सावशेषकर्माण इति निगमनं । अथ यो शं फलं ददातीत्येतन्निगमयन्नाह___एव मित्यादिएवमुक्तक्रमेण नरकतिर्यग्योनीः कुमा पत्वंच हिण्डमानाः-अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि पापकारिणः प्राणवधकाः, विशेषण निगमयन्नाह-एष स प्राणवधस्यफलविपाकः इहलौकिकः मनुष्यापेक्षया मनुष्यभवाश्रयः पारलौकिकः-मनुष्यापेक्षया नरकगत्याद्याश्रितः अल्पसुखो-भोगसुखलवसम्पादनात्अविद्यमीनसुखोवा बहुदुःखोनरकादिदुःखकारणत्वात् 'महब्भउत्तिमहाभयरूपः बहुरजः-प्रभूतंकर्मप्रगाढं-टुोचंयत्रस तथा दारुणोरौद्रः कर्कशः-कठिनः असातः-असातवेदनीयकर्मोदयरूपः वर्षसहैर्मुच्यते ततः प्राणीति शेषः, न च नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति सेषः, इतिशब्दः समाप्ती, अथ केनायं द्वारपञ्चकप्रतिबद्धप्राणातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह
‘एवं ति एवंप्रकारमतीन्द्रियभूतभव्यभविष्यदर्थविषय फुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसुत्ति आख्यातवान् 'ज्ञातकुलनन्दनः' ज्ञाती:-क्षत्रियविशेषाः तत्कुलनन्दनःतवंशसमृद्धिकरः महात्मेतिप्रतीतं, जिनस्तु-जिन एव वीर रनामधेयः-वीरवरेतिप्रशस्तनामा,
तथा कथितवांश्चप्राणवधस्यफलविपाकं,अध्ययन स्यमहावीरभिहितत्वेप्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तटावधस्यैकान्तिकाशुभफलत्वेनात्यन्तपरिहाराविष्णकरणार्थमिति, अथ शास्त्रकारः प्राणवधस्य स्वरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थं पुनर्दर्शयन्नाह-एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रतिज्ञात आदावासीत्, किम्भूत इत्याह
चण्ड:-कोपनः तत्प्रवर्त्तित्वाचण्डः रौद्ररसप्रवर्तितत्वात् रौद्रः क्षुद्रजनाचरित्वात् क्षुद्रः अनार्यलोककरणीयत्वादनार्यः घृणाया अत्राविद्यमानत्वान्निघृणः निःशूकजनकृतत्वान्न शंसः महाभयहेतुत्वात्महाभयः 'बीहणउत्ति भयान्तरप्रवर्तितत्वात् त्रासकः उत्रासहेतुत्वात् अन्याय्योन्यायादपेतत्वात् उद्वेजनकश्च उद्वेगहेतुत्वात् निरवकाङ्क्षः परप्राणापेश्रावर्जित इत्यर्थः, निर्द्धर्मोधर्मादपक्रान्तः निष्पिपासः-वध्यं प्रतिस्नेहविरहात निष्करुणो-विगतदयः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्शकः-तप्रवर्तकः मरणेन वैमनस्य-दैन्यं यत्र स मरणवैमनस्यः ।
प्रथममधर्मद्वारं-मृषावादाद्यपेक्षया निष्ठां गतंइतिशब्दः समाप्तौ ब्रवीमि-प्रतिपादयामि तीर्थकरोपदेशेन न स्वमनीषिकयेति, [7125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org