SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् 9/9/८ एतच्च सुधर्मस्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवचनाश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थं तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थं विनेयानां चैतन्यायप्रदर्शनार्थमाख्यातवानिति। अधर्मद्वारे - अध्ययनं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणासूत्रे प्रथम अधर्मदार अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-२ - मृषावादः:वृ. व्याख्यातं प्रथममध्ययनं, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बनअधः-पूर्व स्वरूपादिभिः प्राणातिपातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयश्रवद्वारभूतो मृषावादस्तथैव प्ररूप्यते, इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम् मू. (९) जंबू बितियं च अलियवयणं लहुसगलहुचवलभणियं भयंकरंदुहकरं अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयबहुलंनीयजणनिसेवियं निस्संसं अप्पञ्चयकारकं परमसाहुगरहणिजं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तियं बितितं अधम्मदारं। वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपिपञ्चभिर्यादशकादिद्वारैः प्ररूप्यते, तत्रयादशमिति द्वारमाश्रित्यालीकवचनस्य स्वरूपमाह-लघुः गुणगौरवरहितः स्वः-आत्मा विद्यते येषांते लघुस्वकास्तेभ्योऽपि ये लघवस्ते लघुस्वकलधवस्तेचतेचपलाश्च कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्गरं दुःखकरमयशःकरंवैरकरं यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसङ्कलेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलोयो निकृतेः-वाचनप्रच्छादनार्थं वचनस्य 'साइ'त्ति अविश्रम्भस्य च अविश्वासवनवस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यावदिहीनैर्जनैः प्राय इदं निषेवितं- कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितंअप्रत्ययकारकं-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसरे पुनर्भवं-पुनः २ जन्म करोतीति पुनर्भवकरं चिरपरिचितं-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तंदुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं १ । मू. (१०) तस्स य नामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणज्जं २ मायामोसो ४ असंतकं ५ कूडकवडमवत्युगं च ६ निरत्थयमवत्थयं च ७ विद्देसगरहणिज्जं ८ अणुजुकं ९ ककणा य १० वंचणा य ११ मिच्छापच्छाकडंच १२ साती उ १३ उच्छन्नं १४ उक्कूलंच १५ ___अटुं१६ अब्भक्खाणंच १७किब्बिसं १८ वलयं १९ गहणंच २० मम्मणं२१ नम२२ निययी २३ अप्पचओ २४ असमओ २५ असच्चसंघत्तणं २६ विवक्खो २७ अवहीयं २८ उवहिअसुद्धं २९ अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नाधेजाणि होति तीसंसावजस्स अलियस्स वइजोगस्स अनेगाई। वृ. अथ यन्नामेत्यभिधातुकाम आह- 'तस्से'त्यादि सुगम, यावत्तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy