SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-१, ३७५ तडागं-प्रतीतं पल्वलं-नडवलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थं जलनिःसारणेनमलनेन-मर्दनेन श्रोतोबन्धनेनच-जलप्रवेशवारणेन सलिलाश्रयान्परिशोषयन्ति ये ते तथा, तथा विषस्य-कालकूटस्य गरलस्य च-द्रव्यसंयोगविषस्य दायका-दातारो ये ते तथा, उत्तृणानां-उद्गततृणानां वल्लराणां-क्षेत्राणां दवाग्निना-वन्यज्वलनेन निर्दयं-यथा भवतीत्येवं पलीवग'त्ति प्रदीपका ये ते तथा, क्रूरकर्मकारिण इमे ये बहवो 'मिलक्खुया' इत म्लेच्छजातीयाः 'के तेत्तितद्यथा-शका यवनाशबराबर्बराः कायाः मुरुंडाः उदा भडकाःतित्तिकाः पकवणिकाः कुलाक्षाःगौडाः सिंहलाः पारसाः क्रोञ्चाः अन्धाः द्राविडाः विल्वलाः पुलिन्द्राः अरोषाः डोंबाः पोकणाः गन्धहारकाः बहलीकाःजल्लाः रोमामाषाः बकुशामलयाश्चचुञ्चुकाश्च चूलिकाः कोंकणकाः मेदाः पह्वाः मालवाः महुराः आभाषिकाअणक्काः चीनाः लहासिकाः खसाःस्वाशिका नेहरा 'मरहट्ठ'त्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः आरबाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति, एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि, तथा चिलातविषयवासिनश्च-ग्लेच्छदेशनिवासिनः, एतेच पापमतयः, तथाजलचराश्च स्थलचराश्च सणहपय'ति सनखपदाश्च सिंहादयः उरगाश्च-सर्पाः 'खहयरसंडासंतुड'त्तिखचराः संदंसतुण्डाश्च-संदंसकाकारमुखपक्षिण इति द्वन्द्वः, तेच तेजीवोपधातजीविनश्चेति कर्मधारयः, कथंभूता?-संज्ञिनश्चासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणं-प्राणिवधानुष्ठानं पापा:--पापानुष्ठायिनः पापाभिगमाः-पापमेवोपादेय. मित्यभिगमाः पापरूचयः-पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथास्वभिरमन्तः 'तुट्ठा पावंकरेत्तुहोतियबहुप्पागर'तिपापं-प्राणवधरूपंकृत्वा बहुप्रकारं तुष्ठाश्च भवन्ति, ये ते कुर्वन्ति प्राणिवमिति प्रकृतं । __ तदियतायेप्राणवधं कुर्वन्तितेप्रतिपादिताः, इदानी यादशंफलंददातिप्राणवधएतदुच्यते, 'तस्से त्यादि, तस्यच-पापस्यपराणवधरूपस्य फलविपाकं फलमिव-वृक्षसाध्यमिव विपाकःकर्मणामुदयः फलविपाक; तं फलविपाकं अयाणमाण'त्ति अजानानाः 'वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमितियोगः, तद्वद्धिश्चपुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतांतां?,महद्भयं यस्यांसा महाभयातांमहाभयांअविश्रामवेदनांविश्रान्तिरहितासातवेदनांदीर्घकालंयावद्बहुभिर्युःखैः शारीरमानसैर्या संकटा-सङ्खला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सतिच्युतास्सन्तः, 'तस्से' त्यादिच सूत्रंक्वचिदेव दृश्यते, अशुभकर्मबहुलाः-कलुषकर्मप्रचुराः उपपद्यन्ते-जायते नरकेषु 'हुलियति शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु ? वज्रमयकुझ्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निर्दिवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शा:-कर्कशस्पर्शाः विषमा-निम्नोन्नता निरयगृह-सम्बन्धिनो ये चारकाः-कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः-अत्युष्णाः सदाप्रतप्तानित्यतप्ता दुर्गन्धा-अशुभग न्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजनकास्ते च ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy