________________
३७६
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८
तथा तेषु, तथा बीभत्सदर्शनीयेषु-विरूपेषुनित्यं सदा हिमपटलमिव-हिमवृन्दमिव शीतलाये ते तथा तेषुच,
कालोऽवभासः-प्रभायेषांतेकालावभासास्तेषुच, भीमगम्भीराश्चतेअतएव लोमहर्षणाश्वरोमर्षकारिणोभीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषुनिष्पतीकारा-अचिकित्स्या ये व्याधयः- कुष्ठाद्याः ज्वराः-प्रतीताः रोगाश्च-सद्योधातिनो ज्वरशूलादयः तैः पीडिता येते तथा तेषु, इदं च नारकधर्मांध्यारोपानरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं- शाश्वतमन्धकारं येषुतेतथा तिमिस्से व-तमिझेगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिनाः अथवा अतीव नित्यान्धकारेण तिमिव च येते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिषकेषु, इह ज्योतिषकशब्देन तारका गृह्यन्ते, मेदश्च-सारीरधातुविशेषः वसा च-शारीरः स्नेहः मांसं च-पिशितं तेषां यत्पटलं-वृन्दं
'पोच्चडं तिअतिनिविडंच, पूयरुधिराभ्यां पक्खवरक्तशोणिताभ्यांउक्किण्णन्तिउत्कीर्ण मिश्रितं विलीनं-जुगुप्सितंचिक्कणं आश्लेषवत्रसिकया शारीररसविशेषेणव्यापन्न-विनष्टस्वरूपमत एव कुथितं-कोथवत्तदेव चिक्खल्लं प्रबलकद्दमः कद्रमश्च तदितरो येषुते तथा तेषु, कुकूलानलश्च-कारीषाग्निःप्रदीप्तज्वालाच मुर्मुरश्च-भस्माग्निः असिक्षुरकरपत्राणांधाराच सुनिशितो वृश्चिकडङ्कस्य-तपुच्छकण्टकस्यचनिपात इतिद्वन्द्वः एभिःऔपम्यं-उपमा यस्य सतथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते तथा तेषु,
____ अत्राणा-अनर्थप्रतिघातकवर्जिताअशरणाश्च-अर्थप्रापकवर्जिताजीवाः कटुकदुःखैःदारुणैर्दुःखैः परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराःअत्यन्तरनिरन्तरा वेदना येषुतेतथा तेषु, यमस्य–दक्षिणदिक्पालस्यपुरुषा-अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्खला येतेतथा तेषु, तत्रच-उत्पत्तौ सत्यमन्तर्मुहूर्तश्च-कालमानविशेषः लब्धिश्चवैक्रियलब्धिर्भवप्रत्ययश्च-भवलक्षणो हेतुरन्तर्मुहूर्तलब्धिभवप्रत्ययं तेन निवर्तयन्ति-कुर्वन्ति पुनस्ते-पापाः शरीरं, किंभूतं? -हुण्डं-सर्वत्रासंस्थितं बीभत्सं दुर्दर्शनीयं-दुर्दर्शन- 'बीहणगं'ति भयजनक अस्थिस्नायुनखरोमवर्जितं, अशुभगनधंच तद्दुःखविषहं चेत्यशुभगन्धदुः-खविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा,
ततः-शरीरनिवर्त्तनानन्तरं पर्याप्तिं-इन्द्रियपर्याप्तिमानप्राणपर्याप्तिं भाषामनः पर्याप्ति चोपगताः प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति-अनुभवन्ति, कं ?-दुःखं, महाकुम्भीपचनादीनि दुःखकारणानीतियोगः, कयाकलितानि?-अशुभया वेदनयादुःखरुपयेत्यर्थः, किंभूतयेत्याह
'उज्जले’त्यादि तत्रोच्चला–विपक्षलेशेनाप्यकलङ्किता बला-बलवती निवर्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति-त्रीन्-मनोवाक्कायांस्तुलयति अभिभवति या सा त्रितुला उत्कटा--प्रकर्षपर्यन्तवर्तिनी खरं-अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं-कर्कशंकूष्माण्डीदलमिव यद्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा-शीघ्रंशरीरव्यापिका प्रचण्डपरिवर्त्तित्वाद्वाप्रचण्डाधोरा-झगिकि जीवितक्षयकारिणीऔदारिकवता, परिजीवितानपेक्षा वा येते घोरास्तप्रवरत्तितत्वात् घोरा इति, 'बीहगण'त्ति भयोत्पादिका, किमुक्तं भवति?
दारुणा, तत एतेषांकर्मधारयोऽतस्तया वेदयन्तीतिप्रकृतं, किंतेति तद्यथा-कंदुः-लोही
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org