SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ द्वारं-, अध्ययनं-५, ५२७ यानि कवेत्याह-कथिताः-प्रतिपादिताः अर्हच्छासने-जिनागमे पञ्चसमासेन-सङ्केपेण संवरा:संवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतंभावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति अथ संवरासेविनो भाविनी फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्घयाभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा-सर्वदा यलेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेनअप्राप्तसंयमयोगप्राप्तयर्थघटनयासुविशुद्धं दर्शनं श्रद्धानरूपंयस्य सतथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निंगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत ! महाव्रतानि लोकधृतिदव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यङ्गनुजदेवगतिविवर्जकानि सर्वजिनशासनकानिकर्मरजोविदारकाणि भवशतविमोचकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पञ्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति॥ मू. (७) पण्हावागरणे णंएगो सुयक्खंधो दस अज्झयणा एक्कासरगा दससुचेव दिवसेसु उद्दिसिजंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स संवरद्वारे अध्ययनं -- १० समाप्तम् ॥१॥ नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ।। ॥२॥इह हि गमनिकार्थं यन्मयाऽभ्युहयोक्तं, किमपि समयहीनं तद्विशोघ्यं सुधीभिः। नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनांचाङ्गिवर्गे ॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषाद्वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां माध्शजनैः, ततः शास्त्रार्थ मे वचनमनधं दुलर्भमिह ।। ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः सुयत्नतः। न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात्। .. वृद्धन्यायानुसारित्वात्, हितार्थं च प्रवृत्तितः ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाग सूत्रस्य अभदेवसूरि विरचिता टीका परिसमाप्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy