________________
५२८
॥ ६ ॥
॥७॥
11211
॥ ९ ॥
यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा ।। तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि
बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिषेश्चारित्रचूडामणेः ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः ॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥
१० दशमं अङ्गसूत्रं प्रश्नव्याकरणं समाप्तम्
Jain Education International
प्रश्नव्याकरणदशाङ्गसूत्रम् -/-/
***
For Private & Personal Use Only
www.jainelibrary.org