________________
५२६
प्रश्नव्याकरणदशाङ्गसूत्रम् -/५/४५
ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारक्तत्वादीन शिशिरकाले-शीतकाले अङ्गारेषुप्रतापनाःशरीरस्याङ्गार-प्रतापनाः ताश्च आतपः-सूर्यतापः स्निग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखाः- हेमन्तादिकालवि-शेषेषु सुखकराः स्पर्शा अङ्गसुखं च निवृत्तिं च मनःस्वास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्टवा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा
अनेको-बहुविधो बन्धो-रज्ज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽकरणंअतिभारारोहणंअङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनांनखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं जीरणं गात्रप्रक्षणनं तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल'त्ति कलकलशब्दं करोति यक्तत्कलकलं अतितप्तमित्यर्थः तेन त्रपुणा सीसकेन-काललोहेनच यत्सेचनं-अभिषेचनं यत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्ज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धानि तानि तच्छब्दैरेवोक्तानि तथा कुम्भ्यां-भाजनविशेषे पाकः-पचनंदहनमग्निनासिंहपुच्छनं शेफत्रोटनं उद्वन्धनं-उल्लम्बनंशूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्टशीर्षच्छेदनंच प्रतीतं जिह्वाञ्छनं-जिह्वाकर्षणं वृष्णनयनहृदयात्रदन्तानांयभञ्जनं आमर्दनंतत्तथा, योनं यूपेवृषभसंयमनलता कम्बा कषो-वर्द्धःएषां येप्रहारास्तेतथापदपाणि:-पादपाष्णिःजानु-अष्ठीवत्प्रस्तराः-पाषाणाः एषांयोनिपातः-पतनं सतथा,
पीडनं-यन्त्रपीडनं कपिकच्छू:-तीव्रकण्डूतिकारकः फलविशेषः अग्निः-वह्निः 'विच्छुयडक्क'त्ति वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्टवा दुष्टनिषद्या-दुरासनानि दुर्निषीधिकाः-कष्टस्वाध्यायभूमीः स्पृष्टवा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरुक्षेषु बहुविधेषु अन्येषुचैवमादिकेषु स्पर्शेष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५।।
इह पञ्चमसंवरे शब्दादिषुरागद्वेषनिरोधनं यद्मावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं, तद्विरत एव चापरिग्रहो भवतीति, आह च॥१॥ “जे सद्रूपवरसगंधमागए, फासे य संपप्प मणुण्णपावए।
गेही पओसं न करेञ्ज पंडिए, स होतिदंते विरए अकिंचणे॥"त्ति
__ 'एवमिण मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । म. (४८) एयातिं वयाई पंचवि सुब्बयमहब्बयाई हेउसयविचित्तपुक्कलाई कहियाई अरिहंतसासने पंच समासेण संवरा वित्थरेण उपणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धंदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति।
वृ.अथ संवरपञ्चकस्य निगमनार्थमाह-एतानिपञ्चापिहेसुव्रतशोभननियम! महाव्रतानि संबररूपाणि हेतुशतैः-उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि-विस्तीर्णानि यानि तानि तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org