________________
५२०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ भवतिअन्तःशुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो–ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनःसन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे ह्रदः समो भवतिअनिम्नोत्रतजलोपरिभाग इत्यर्थः तथा साधु-सत्कारन्यत्कारयोरनुन्नतानिनभावतया समो भवतीति,
उद्धृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावेन-निर्मायतया अनिगृहितभावेन सुखभावः-शोभनस्वरूपः शुद्धभावो वेति शोण्डीरः-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाव्रतभारोद्वहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं भवति दुष्प्रधृष्यः-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहृदयो यथा शारदंजलं शुद्धं भवतीत्येवमय शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा मारण्डाभिधानः पक्षी अप्रमत्तश्चकितो भवतीत्येवमयमपीति, खगःआटव्यश्चतुष्पदविशेषः सोकश्रृङ्गो भवतीत्युच्यतेखगविषाणमिवैकजातोरागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिवोर्ध्वकायःकायोत्सर्गकाले शून्यागारमिवाप्रतिकर्म इति व्यक्तं 'सुण्णागारावणस्संतो'त्ति शून्यागारस्य शून्यापणस्य चान्तः-मध्ये वर्तमानः, किमिव किंविध इत्याह--
__ निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वलनमिव निष्प्रकम्पो-दिव्याधुपससंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चैव एगधारे'त्ति चेवशब्दःसमुच्चये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः 'जहा अही चिव एगगिट्टि 'त्ति यथा अहिरेकऽष्टिः बद्धलक्षः एवं साधुर्मोक्षसाधनैकष्टिः 'आगासंचेव निरालंबे'त्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं--न किञ्चिदालम्बनते एवं साधुग्रामदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो विप्रमुक्तः,निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगःसर्पः, तथा अप्रतिबद्धः-प्रतिबन्धरहितः अनिल इव-वायुरिव जीव इव वा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः,
ग्रामे ग्रामे चैकरात्रं यावत् नगरे नगरे च पञ्चरात्रं “दूइजते इति विहरंश्चेत्यर्थः, एतच्च भिक्षुप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुत एवंविधोऽ- सावित्याह-जितेन्द्रियोजितपरीषहो यत इति, निर्भयो--भयरहितः 'विउ ति विद्वान-गीतार्थः पाठान्तरेण विशुद्धोनिरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुकः गौरवत्रयत्यागानिरवकाङ्कः-आकासवर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः सतथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निव्रणं-निरतिचारंचारित्रं-संयमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्यात्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेद्अनुपालयेत् धर्म-चारित्रलक्षणमिति ।
'इमं चेत्यादि रक्खणट्ठयाए' इत्येतदन्तं सुगम, नवरं अपरिग्रहरूपं विरमणं यत्तत्तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org