________________
द्वार-२, अध्ययनं-५,
५२१ 'पढमति पञ्चानांमध्येप्रथमंभावनावस्तुशब्दनिःस्पृहत्वंनाम, तचैवं श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान् किंतेत्तितद्यथा वरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः 'दहुर'त्ति दर्हरटः चविनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपञ्ची वल्लकी च वीणाविशेषाः वद्धीसकं-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दीद्वादशतूर्यनिर्घोषः तानि चामूनि॥१॥ "भंभा मउंद मद्दल हुडुक्क तिलिमा य करड कंसाला।
काहल वीणा वंसो संखो पणवओ य बारसमो॥" तथा सूसरपरिवादिनी-वीणाविशेष एववंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तन्त्री-वीणाविशेष एव तला-हस्ततालास्तालाः-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि वाद्यानि एषां यो निर्घोषो नादः तथा गीतं-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततःश्रुत्वेति योगा द्वितीया, तथानटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतूणइल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानिच कानीत्याह-बहूनि अनेकानि मधुरस्वराणां-कलध्वनीनांगाथकानां यानि गीतानि सुस्वराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः,
'तथाकाञ्ची-कट्याभरणविशेषः मेखलापितद्विशेषएवकलापको ग्रीवाभरणं प्रतरकाणि प्रहेरक:-आभरणविशेषः पादजालक-पादाभरणंघण्टिकाः-प्रतीताः किंकिण्यः-क्षुद्रघण्टिकाः तप्रधानं 'रयण'त्ति रत्नसम्बन्धी उर्वोः-बृहज्जङ्घयोर्जालकं यत्तत्तथा 'छड्डिय'त्ति क्षुद्रिका आभरणविशेष; नूपुरं-पादाभरणंचलनमालिकाऽपितथैव कनकनिगडानिजालकंजाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचङ्कम्यामाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्-सातान् लीलासञ्चरणसञ्जितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरुपाणि रिभितानिस्वरघोलनावन्तिमञ्जुलानिच-मधुराणितानि तथाऽतस्तानि, तथागुणवचनानिच-स्तुतिवादांश्च बहूनि-प्रचुराणिमधुरजनभाषितानि-अमत्सरलोकभणितानिश्रुत्वा, किमित्याह तेश्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकरेषुशब्देषु मनोज्ञभद्रकेषु न,
तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं न रागकार्यःन गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्षन कार्या न मोहितव्यं-तद्विपाकपर्यालोचनायां न मूढे न भाव्यं न विनिघातं तदर्थमात्मनः परेषां वा विनिहननं आपत्तव्यं न लोब्धव्यं-सामान्येन लोभो न विधेयः न तोटव्यं-प्राप्तौ न तोषो विधेयः न हसितव्यं प्राप्तौ विस्मयेन हासो न विधेयो न स्मृतं वा-मणं मतिवा-तद्विषयं ज्ञानं 'तत्थ'त्ति तेषुशब्देषु कुर्यात्, पुनरपि चेतिशब्दगतंप्रकारान्तरंपुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् ‘किंते'त्ति तद्यथा आक्रोशो-म्रियस्वेत्यादि वचनंपरुषं-रेमुण्ड! इत्यादिकंखिंसनंनिन्दावचनं अशीलोऽसावित्यादिकं अपमानं-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा,
तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भत्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org