________________
द्वारं-२, अध्ययनं - ५,
५१९
'से हु समणे' त्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह श्रुतधारकः ऋजुकःअवक्रः उद्यतो वा-अनलसः संयमी, सुसाधुः - सुष्ठु निर्वाणसाधनपरः शरणं त्राणं सर्वभूतानां - पृथिव्यादीनां रक्षणादिना सर्वजगद्वत्सलः - सर्वजगद्वात्सल्यकर्त्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च 'संसारसमुच्छिण्णे' त्ति समुच्छिन्नसंसारः सततं सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरथभिः - सितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्म्मरूपो यो ग्रन्थिस्तस्य विमोचको
यः स तथा,
अष्टमानमथनः– अष्टमदस्थाननाशकः स्वसमयकुशलश्च - स्वसिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो - हर्षादिरहित इत्यर्थः, 'अमितरबाहिरे' त्ति अभ्यन्तरस्यैव शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं - प्रायश्चित्तादि षड्विधं बाह्यस्याप्यौदारिकलसक्षणस्य शरीरस्य तापकत्वाद् बाह्यं– अनशनादि षड्विधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरबाह्ये सदा नित्यं तप एव उपधानं - गुणोपष्टम्भकारि तपउपधानं तत्र च सुष्ठुद्युक्तः - अतिशयेनोद्यतः क्षान्तः - क्षमावान् दान्तश्च - इन्द्रियदमेन 'हियनिरए' त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः,
-
'ईरिए 'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्सर्वसङ्गत्यागात् संविग्मनोज्ञसाधुंदानाद्वा 'लज्जु'त्ति रज्जुरिव रज्जुः सरलत्वात् धन्योधनलाभयोगयोग्यत्वात् तपस्वी प्रशस्तपोयुत्वात् क्षान्त्या क्षमते न त्वसामथ्यादिति क्षान्तिक्षमः जितेन्द्रिय इति व्यक्तं शोभितो गुणयोगात् शोधिदो वा शुद्धिकारी सुह्यद्वा सर्वप्राणिमित्रं अनिदानोनिदान परिहारी संयमात् न बहिर्लेश्या - अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममोममकारवर्जितः अकिञ्चनो - निर्द्रव्य, छिन्नग्रन्थः- त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्ति छिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्वविधं द्रव्यश्रोतो भावश्रोतश्च तत्र द्रव्यश्रोतो - नद्यादिप्रवाहः भावश्रोतश्च संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा,
निरुपलेपः - अविद्यमानकर्मानुलेपः एतच्च विशेषणं भाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकास्यंभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं सम्बन्धहेतुः स्नेहः शङ्ख इव निरञ्जनः--अविद्यामानरञ्जनः साधुपक्षे रञ्जनं जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु, अत एवाए - विगतरागद्वषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धस्वरूप इत्यर्थः, रुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया - सौम्यपरिणामेन अनुपतापकतया सूर इव दीप्ततेजाः - तपस्तेजः प्रतीत्य अचलो- निश्चलः परीषहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्तः अक्षोभः - क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलरहितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः,
'तवसाविय'त्ति तपसाऽपि च हेतुभूतेन भस्मराशिच्छन्न इव जाततेजाः - वह्निः, भावनेहयथा भस्मच्छन्नो वह्निरन्तज्वलति बहिम्लानो भवतीत्येवं श्रमणः शरीरमाश्रित्य तपसा ग्लानो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International