________________
५१८
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
॥१॥ "काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं।
गणं व नीईए उ सारविस्सं, सालम्बसेवी समुवेइ मुक्खं ॥" आत्मने परस्मै वा निमित्तं औषधमैषजंभक्तपानं च तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्वात्यदपि च श्रमणस्य सुविहितस्य तुशब्दोभाषामात्रेपतद्ग्रहधारिणः-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च औपग्रहिकं अथवा भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाहपतद्ग्रहःपात्रं पात्रबन्धनं-पात्रबन्धःपात्रकेसरिका-पात्रप्रमार्जनपोतिकापात्रस्थापन-यत्र कम्ब लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पात्रप्रच्छादकानि वस्त्रखण्डानि 'तिन्नेव'त्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति,
अन्यथा पञ्चसप्त चेति, रजस्त्राणांच-पात्रवेष्टनचीवरंगोच्छकः-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिकौ तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोलपट्टकःपरिधानवस्त्रं मुखानन्तक-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योपबृंहणार्थ-उपष्टम्भार्थं न परिग्रहसंज्ञया, आह-- ॥१॥ "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं ।
तंपि संजमलजट्ठा, धारंति परिहरंति य॥ (परिभुञ्जत इत्यर्थः), ॥२॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा।
मुच्छापरिग्गहो वुत्तो, इति वुत्तं महेसिणा !!" अस्मदुगुरुणेत्यर्थः तथावातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकंरागद्वेषसरहितं यथा भवतीत्येवंपरिहर्त्तव्यं परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च॥१॥ “अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो।
अपरिग्गहोत्ति भणितो जिणेहिं तेलोक्कदंसीहिं ।।" तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जनारजोहरणादिक्रिया सा तथा तस्यां 'अहो यराओयत्ति रात्रिन्दिवं अप्रमत्तेन-अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं ग्रहीतव्यं चेति, किन्तदित्याह
भायणभंडोवहिउवगरणं, एवं अनेन न्यायेन संयतः-संयमी विमुक्तः-त्यक्तधनादिः निःसङ्गः-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्नेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां-अपकारिकायां चन्दने च-उपकारके समानः तुल्यः कल्पः-समाचारो विकल्पो वा यस्य स तथा, द्वेषरागाविरहित इत्यर्थः, समाउपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काञ्चने च समः-उपेश्रकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समश्च हर्षदैन्याभावात्मानेन-पूजया सहापमानता तस्यां, शमितं-- उपशमितं रजः-पापंरतंवा-रतिर्विषयेषुरयोवा-औत्सुक्यंयेनशमितरजाः शमितरतः शमितरयो वा-शमितरागद्वेषः समित; समितिषुपञ्चसुसम्यग्दृष्टिः-सम्यग्दर्शनी, समश्चयः सर्वपरीणभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावरा;,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org